कारकविभक्त्यधिकारः ६१
६२५. ब्रूहि सुग्रीवं वानरानाहूय सर्वासु दिक्षु विदिक्षु च ते प्रेष्यन्ताम्
इति।
१२६. सखीजनादात्मवञ्चनावृत्तान्तं श्रुत्वा सा परं विषसाद ।
१२७. सापराधे ग्रहिले शिष्ये भृशं कुप्यन्ति गुरवः ।
१२८. न्यग्भूतस्य योधस्य मुखं भूमौ स्पर्शयति प्रतियोधः ।
१२९. अस्माकं पूर्वजानां पुस्तकानि पठितुं न प्राप्यन्ते स्म ।
१३०. अहो बत महत्कष्टम् । य एव दुःस्मरः कालस्तमेव स्मारिता
वयम् ।
१३१. अनृतं हि पतनीयेषूत्तमम् इतीदं बलवज्जुगुप्सन्ते शास्त्रकाराः ।
१३२. किमिति बद्धलक्ष्यो भवानिमां स्थाली होराभिर्बह्वीभिर्निध्यायति ।
१२५. वानरा आहूय प्रेष्यन्तामिति न्यासो निर्दुष्टः । प्रेष्यन्तामिति
प्रधानक्रियया कर्मण उक्तत्वाद् वानरा इति प्रथमान्तं साधु ।
१२६. बाढं सखीजन आख्याताऽस्ति । उपयोगस्तु नास्ति । उपयोगो
नियमपूर्वकं विद्याग्रहणमिति वृत्तावुक्तम् । तेनाख्यातुरपादा-
नत्वाभावे शेषे षष्ठ्येव साध्वी ।
१२७. कोपः क्रोधो नेति मतेऽत्र सम्प्रदानता नास्तीति चतुर्थी नोप-
पन्नेति वैषयिकी सप्तमी साध्वी । अथ मतं क्रोधस्य पूर्वरूपमपि
कोपः क्रोध इत्युपचर्यते तदा सम्प्रदानतायां चतुर्थ्यपि न न
युक्ता।
१२८. अणौ मुखं भूमिं स्पृशतीति वाक्यम् । स्पर्शो हि निरन्तरमुप-
गूहनं भवति, तेन णो स्पर्शस्य गतिविशेषत्वाद् गत्यादिसूत्रेण
मुखमिति कर्मणि द्वितीया युक्ता।
१२९. पूर्वजैरिति वक्तव्यम् ।
१३०. ज्ञानसामान्यार्थानामेव (गत्यादिसूत्रे) ग्रहणं न तु तद्विशेषार्थाना-
मिति दीक्षितमते तु स एव स्मारितोऽस्माभिरित्येवं न्यसनीयम् ।
उत्तरे रामचरितेऽयं प्रयोगः ।
१३१. अत्र जुगुप्सन्त इति केवलायां निन्दायां प्रयुक्तिन तु निन्दापूर्वि-
कायां निवृत्तावित्यपादानता नास्तीत्यवदातं वचः ।
१३२. होरा बह्वीरित्यत्यन्तसंयोगे द्वितीया प्रयोज्या।