पृष्ठम्:शब्दापशब्दविवेकः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६० शब्दापशब्दविवेके


११९. पुराकालस्य तु परमेश्वरो विजानीयात्, अद्यत्वे तु वाङ्मात्रेण न धर्मे समादरो लोकस्य । १२०. इदं च संस्कृतं पिपठिषून् सर्वप्रथमं बोद्धव्यं कृशा हि नो वृत्तिरिति । १२१. यावच्छक्यं सन्मार्गपथिकता लोकान्नेतव्या श्लगर्वचोभिः१ । १२२. नहि शुकवच्छक्यते पाठयितुं बालान् । १२३. यादृशी प्रवचनशैली२ साम्प्रतं प्रचरति सैवास्माभिश्छात्रेभ्यः शिक्षणीया। १२४. परोपकाराय नियुक्तचेतसां यत्सुखं न तत् स्वार्थपरायणानाम् । ११९. सा लक्ष्मीरुपकुरुते यया परेषामितिवदत्रापि कर्मणः शेषत्ववि- वक्षायां भवन्ती पुराकालस्येत्यत्र षष्ठी न दोषाय । १२० पिपठिषुभिरिति वक्तव्यम् । व्यक्तो हेतुः । १२१. नयतेः प्रयोगे लोका इति प्रधानं कर्म। सन्मार्गपथिकतेति च गौरणम् । प्रधाने नीहकृष्वहामिति नियमात्प्रधाने कर्मणि प्रत्ययः । तेन सन्मार्गपथिकतां लोका नेतव्या इति निर्दुष्टं वचः । कृत्यै- र्योगे कर्तरि वैकल्पिकी षष्ठी विहिता न तु कर्मणीति सन्मार्ग- पथिकतातः षष्ठी न । १२२. बाला इति कर्म । तच्च शक्यते इति प्रधानक्रियायाः कर्मवाचि- न्याः कर्मेत्यङ्गीकारे शक्यन्ते पाठयितुं बाला इति वक्तव्यं स्यात् । अप्रधानक्रिययानुक्तत्वेपि प्रधानक्रिययोक्तत्वाद् बालात् प्रथमा । शक्यत इत्यत्र भावे चेत्प्रत्ययः, न कश्चिद्दोषः । भावे तुमुन् इति तेनानुक्तत्वाद् बालानिति द्वितीया सूपपन्ना। १२३. छात्रात्र शिक्षणीयेति साधु । तां छात्राः शिक्षणीयाः इत्येवं वा वक्तव्यम् । शिक्षिर्ण्यन्तो बोधनार्थकः। बुद्धिभक्षार्थयोः शब्द- कर्मकारणां निजेच्छयेति वचनात्प्रधानाप्रधाने कर्मणी स्वेच्छया लादिभिरुच्येते। १२४. परोपकारे नियुक्तचेतसामिति साधु । उपपत्तिविस्पष्टा । १. मसृणै:, चिक्कणै:, कोमलैरिति यावत् । २. अध्यापनविधिः । ३. स्वार्थः परं प्रधानमयनं येषां ते स्वार्थपरायणाः, तेषाम् ।