कारकविभक्त्यधिकार: ५९
१११. नाटिका हि प्रायेण चतुर्ष्वङ्केषु पूर्यते ।
११२. वेदादिषु ग्रन्थेषु विद्विषन्तोऽनार्य्यास्तेष्वनार्यमाचरन् तत्कृतं
लोकस्य ज्ञानविपरिलोपं च नापश्यन् ।
११३. अनक्षरप्रायेभ्यो भिक्षुकेभ्यो विद्योपादित्सा गगनकुसुमेभ्यः
सौरभ्यजिघ्रासेव।
११४. अनुच्छिति१ धर्माऽयमात्मेति न भरतवर्षीयेभ्यो बोधनीयं भवति ।
११५. इदानीं सर्वनाशे स्वल्प एव समयोऽवशिष्यते । अद्यापि न जाग्रति
लोका इति चित्रम् ।
११६. विबुधभारत्याः प्रणयिन इह मनागवदधताम्
११७. संस्कृतज्ञा लोकव्यवहारेण नितरामनभिज्ञा इति दूषणं न तु
भूषणम् ।
११८. अपरिचिता एव लोकवृत्तान्तेभ्यो भवन्ति कुमारा यावद् वृद्धान्नो-
पासते ।
१११. चतुर्भिरङ्कैरित्यनुक्ते कर्तरि तृतीया तु न्याय्या । यथा जलबिन्दु-
निपातेन क्रमशः पूर्यते घट इत्यत्र । न ह्यङ्का प्रधिकरणं येन
सप्तमी सुप्रयोगा स्यात्
११२. वेदादीन् ग्रन्थान् इति द्वितीया साध्वी । द्विषिः सकर्मकः ।
११३. अनक्षरप्रायाणां भिक्षुकारणां विद्याया उपादित्सेति वक्तव्यम् ।
कर्मणि चेति कर्मणि षष्ठीसमासनिषेधाद् विद्योपादित्सेति न
युक्तम् । अकाराकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति उभयप्राप्तौ
कर्मणीति नियमो न । तेन भिक्षुकाणामिति कर्तरि षष्ठी निर-
वद्या । गगनकुसुमेष्विति च वक्तव्यम् ।
११४. भरतवर्षीया बोधनीया भवन्तीत्ययमेव न्यासो निर्दुष्ट: । भरत-
वर्षीया इति प्रयोज्यं कर्म । वाक्यार्थश्च प्राकृतं कर्म ।
११५. सर्वनाशस्येति शेषे षष्ठी प्रयोज्या । सप्तम्या नार्थः ।
११६. भारत्यां प्रणयिन इति तु साधीयः । षष्ठ्यपि न वार्यते।
११७. लोकव्यवहारस्येति कृद्योगलक्षणा षष्ठीष्यते ।
११८. परिचितशब्दे क्तः कर्मणीति विस्मरति प्रयोक्ता । तथा सति
कुमारा अपरिचिता अविदिता: सन्तीत्यनिष्टार्थोदयो दुर्निवारः ।
तेन अपरिचितवन्तो लोकवृत्तान्तान् इति शोभनं वचः स्यात् ।
१. उच्छित्तिर्नाशः । तदभावोनुच्छित्तिः । सा धर्मः स्वभावोऽस्येति विग्रहः ।