पृष्ठम्:शब्दापशब्दविवेकः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८ शब्दापशन्दविवेके


१०३. देवदत्तो नाम' विदुषामनुरागी नित्यं च वृद्धोपसेवीति प्रशस्यते लोकेन। १०४. संस्कृतशब्दव्यवहारो हिन्दुजात्यै न सुपरिहरः । १०५. शास्त्रविस्तरो महति परिमारणे यथा स्यात्तथा यतितव्यं सुधीभिः । १०६. य: पुराणकथाभिरपरिचितः स वेदार्थं कथमुपबृंहयेत् । १०७. को नाम प्रतिनिविष्टजनचित्तमाराधयेत् ? केवलं परमेश्वरः सुमतये सम्प्रार्थनीयः। १०८. अथ ब्राह्मणैः स्वस्ति वाचयति । १०६. यवनेभ्यः स्वमतान्धेभ्यः को नाम संभावयेत् परमतमर्षणम् ? ११०. आर्याः परमेश्वरं प्रत्यहरहः प्रार्थयन्ते शं नो भवतु द्विपदे श चतुष्पद इति । १०३. विद्वत्स्वनुरागीति सप्तम्येव साध्वी। १०४. भावकर्मणोरेव खलाः प्रत्यया भवन्तीति कर्तर्यनुक्ते हिन्दुजात्या इत्येव साधु । कृद्योगलक्षणा षष्ठी तु न लोकाव्ययेत्यादिना निषिद्धा। १०५. महता परिमाणेनेति प्रकृत्यादित्वात्तृतीया युक्ता। १०६. अस्थानेऽपरिचितशब्दप्रयोगः । अपरिचितो ह्यविदितो भवति । कर्मण्यत्र क्तः । इष्यते तु कर्तरि प्रत्ययः । तेन यः पुराणकथानां परिचेता परिचायकः) नेति वक्तव्यम् । पुराणकथासु परिचय- वान्नेति वा वाच्यम् । १०७. परमेश्वरः सुमतिं प्रार्थनीय इत्येवं वक्तव्यम् । गौणे कर्मणि दुह्यादेरिति वचनात्प्रधानं कर्मानुक्तमिति सुमतिशब्दे द्वितीया साध्वी । चतुर्थी तु नितान्तं दुरुपपादा । १०८. वाचयतिः शब्दकर्मा । स्वस्तिशब्द: कर्म । स्वस्तीत्यव्ययम् । तेन ब्राह्मणानिति द्वितीयैव साध्वी । १०६. यवनेष्वित्यादि वक्तव्यम् । ११०. परमेश्वरं प्रतीत्यत्र प्रतिशब्दस्त्याज्यः । परमेश्वरो हि प्रार्थयतेः कर्म ।१. नामेति प्राकाश्येऽभ्युपगमे वाऽव्ययम् । अयमर्थो लोकस्य प्रकाशः (विदितः) तेनाभ्युपगतो वा।