कारकविभक्त्यधिकारः ५७
९५. दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते (मनु०) ।
९६. आध्यादीनां विहर्तारं धनिने दापयेद् धनम् (याज्ञ० २।२६) ।
९७. किमिति वृथा प्रकुप्यसि मयि ? नाहं ते किमप्यपाकरवम् ।
९८. इदानीमहमीर्ष्यामि स्त्रीणां जनक नो पुरा (बौ.ध.सू. २।२।३४)।
९९. न केनचिद् द्वेष्टि न स्निह्यति कस्यचित् ।
१००. यदि वयमेवात्र न प्रणिदध्मस्तदा१ कोऽन्यः प्रणिधास्यति ।
१०१. विदेशाधिपतयो भारतं युद्धभयं दर्शयन्ति । मिथ्याविभीषिकेय-
मिति च स्वयं विजानन्ति ।
१०२. दिष्ट्या मासत्रयात्प्रवृत्तस्य विवादस्याद्य निर्णयो जातः ।
९५. भीत्रार्थानां धातूनां प्रयोगे भयहेतोरपादानसंज्ञा विहिता।
तेनात्र तदभावात्षष्ठयां न दोषः । पञ्चमी भयेनेति समास-
विधानाल्लिङ्गात्तु भयशब्दप्रयोगेऽप्यपादानता सूत्रकारस्येष्टेति
ज्ञायते । तदत्र विद्वांसो निर्णयं ब्रुवन्तु । अपि नाम ज्ञापकसिद्धं
न सर्वत्रेति समाधिर्युक्तः स्यात् ।
९६. प्रकुप्यसिप्रयोगे चतुर्थी पाणिनीयानां नेष्टा । कोपक्रोधयोर्भेदात् ।
न ह्यकुपितः क्रुध्यतीति ब्रुवता भाष्यकारेण तद्भेदस्योक्तत्वात् ।
तेनाधिकरणविवक्षायां मयि इति साधु । शेषे षष्ठी वा प्रयोक्तव्या।
९८. स्त्रीणामिति द्वितीयार्थे षष्ठी सूत्रकारप्रयोगात् । ईर्ष्यामि सहे
इत्यर्थाद् यं प्रति कोप इत्यस्य चाभावाद् भार्यामीर्ष्यतीति वद्
द्वितीयैव साध्वी।
९९. न किञ्चिद्वेष्टि न स्निह्यति कस्मिंश्चिंदिति शोभनो न्यासः ।
द्विषि: सकर्मकः स्निहिश्चाकर्मकः । कस्यचिदिति सम्बन्धषष्ठ्या-
मपि न दोषः । सप्तमी तु श्रेयसी ।
१००. प्रणदधातिर्नित्यं सकर्मक इति मन इत्याद्यध्याहार्यम् । कामं
प्रणिधानं केवलमपि मनःप्रणिधानमाह ।
१०१. दृशेश्चेति वार्तिकेनाणौ कर्तुः कर्मत्वे भारतमिति द्वितीयान्तं साधु ।
१०२. अत्यन्तसंयोगे द्वितीयैव साध्वीति मासत्रयमित्येव साधु ।१. चिन्तयामः।