५६ शब्दापशब्दविवेके
८६. न जाने केन कारणेन (गुरूणां) शिष्या हिन्दूनां रक्तस्य पिपासवः ।
८७. मिथ्यातापसा: केचिद् बालान् सान्त्ववचनेन मृष्टान्नेन च प्रेर्य
कुटुम्बिभ्यो वियोजयन्ति ।
८८. सर्वशक्तिरीशो यस्मै कामयते तमुग्रं करोति, तमृषिं तं सुमेधसम् ।
८९. यदयं देवदत्तस्य कार्यसिद्धिं प्रतिहन्ति१, एतेन स तस्माद्वैरं
निर्यातयति।
९०. ऐन्द्रजालिको हि सत्त्वरूपे विपरिणमयत्यसत्त्वं च सत्त्वरूप इति
भाति ।
९१. य आतृणत्ति२ कर्णावमृतं च सिञ्चति कस्तस्मा अभिद्रुह्येदमूढः ।
९२. यन्मनुष्यादिप्राणिजातस्यान्नोदकादि प्रयच्छति तद्विधातुर्विधातृत्वम्।
९३. वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे (उत्तर० २।४)।
९४. न जातु संकटे पतिता विमुह्यन्ति धीराः, तेन नेदं वैक्लव्यं
संभाव्यते युष्मादृशेभ्यः ।
८६. न लोकाव्ययेति सूत्रेण रक्तमिति द्वितीयान्तं साधु ।
८७. अणौ कुटुम्बिनो बालान् वियुञ्जते (त्यजन्तीत्यर्थः) इति वाक्यम्।
णौ तु कुटुम्बिभिर्वियोजयन्तीत्यनुक्ते कर्तरि तृतीयैव साध्वी ।
अणौ वियुज्यन्ते इति चेत्कर्मकर्तरि प्रयोगः, न कश्चिद्दोषः । तदा
कुटुम्बिभ्य इति पञ्चमी ज्ञेया।
८८. यं कामयते इत्येव साधु । स्पृहेरीप्सित इत्यत्रार्थग्रहणाभावात् ।
८९. तस्मै वैरं निर्यातयतीति वक्तव्यम् । निर्यातनमिह प्रत्यर्पणे
वर्तते । तथा च भारते प्रयोगः-निर्यात्य वैरं सफलं सपुष्पं तस्मै
नरेन्द्राधमपूरुषाय (वन० १७६।१०)।
९०. असत्त्वरूपेण चेति वक्तव्यम् । हेतुः पूर्वमसकृदुक्तः ।
९१. क्रुधद्रुहोरुपसृष्टयोः कर्मेति तस्मा इत्यसाधु । तमिति प्रयुञ्जीत ।
९२. प्राणिजातायेति सम्प्रदाने चतुर्थ्या भवितव्यम् ।
९३. अधिकरणत्वेन विवक्षितत्वात्सिद्धमिति तदस्मिन्वृद्धयायलाभ-
शुल्कोपदा दीयते (५।१।४५) इति सूत्रे चतुथ्यर्थ उपसंख्यानमिति
वार्तिकं निराकुर्वता वृत्तिकृतोक्तम् । तेन प्राज्ञे जडे इति सप्तम्यौ
साध्व्यौ।
९४. युष्मादृशेषु सम्भाव्यते इत्येव साधु । न हि युष्मादृशा अपादानम् ।
१. विहन्ति, तत्र विघ्नं करोति । २. विवरं करोति ।
-