पृष्ठम्:शब्दापशब्दविवेकः.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारविभक्त्यधिकारः ५५


७८. न खलु व्याकरणेऽभिज्ञोऽसि, यदेवमन्यथा व्युत्पादयसि पदानि मिथ्या१ च कारयसे१ । ७६. वधूं नवे वाससी परिधाप्य विवाहमण्डपे संनिधापयन्ति ऋत्विजः । ८०. न हि निपुणोऽपि स्वस्कन्धे समारोढुं क्षमः । ८१. मूढधियां सेवित एष पन्थाः । तस्मादिमं माऽऽस्था:२ । ५२. दुराचारो हि पुरुषो नार्हति भवार्णवादुत्तरीतुम् । ८३. तरुफलशातनाय३ निषिद्धा अमी दुर्वृत्ता बटवो न चापलं विरमयन्ति । ८४. नृशंसास्ते बालेष्वपि मनागपि नादयन्त । ८५. अनूबन्धं विजानन्नहमेतदकरवम् । नाहमेनेनाऽनुशये५ । ४ ७८. कृद्योगलक्षणया षष्ठ्या व्याकरणस्येति स्यात् । ७६. परिधापयतिप्रयोगेऽणौ कर्तुः कर्मत्वाभावे वध्वेत्यनुक्ते कर्तरि तृतीयैव साध्वी। संनिधाञ् अकर्मकोऽपि प्रयुज्यते इति ण्यन्ते कर्मत्वे वधूमिति साधु । तेन वध्वा नवे वाससी परिधाप्य तामि- त्यादिरुपन्यास आश्रेयः । ५०. आरुहिर्नित्यं सकर्मक इति स्कन्धमारोढुमित्येवं वक्तव्यम् । ८१. क्तेन योगे कृद्योगलक्षणायाः षष्ठ्या निषेधान्मूढधीभिरिति कर्त- र्यनुक्ते तृतीयया भवितव्यम् । ८२. उत्तरतिः सकर्मक इति भवार्णवम् इत्येव साधु । ८३. 'वारणार्थानामीप्सितः' इति तरुफलशातनादिति पञ्चम्येव न्याय्या। ५४. बालानां बालान्वेति साधु । हेतुस्तु पूर्वत्र विततं गदितः । ८५. अनुपूर्वः शीङ् स्वप्ने इति धातुः पश्चात्तापे वर्तमानः सकर्मको ऽकर्मकश्चापि दृष्टः । यथा दत्तमिष्टमपि नान्वशेत सः इति माघे (१४।४५) । पुरानुशेते तव चञ्चलं मन इति च किराते (८।८)। तेन नात्र कश्चिद्दोषः । १. असकृद् अन्यथोच्चारयसि । २. आङ्पूर्वात्तिष्ठतेलुङि । ३. शातनं निपातनं भवति । ४. उदकम् उत्तरं फलम् । ५. पश्चात्तप्ये।