पृष्ठम्:शब्दापशब्दविवेकः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

54 शब्दापशब्दविवेके


७०. अस्मभ्यं तु श्रीशङ्करप्रभृतयोऽधिकप्रज्ञानाः प्रतीयन्ते । ७१. संयतांश्च१ विविधाः सेवाः कारयन्ति, मुञ्जं कुट्टयन्ति, रज्जुं वर्तयन्ति धान्यं च पेषयन्ति । ७२. अनिच्छताऽपि यजमानेन पुरोहितं दापयन्ति धेनुं बान्धवाः । ७३. शिष्या२ दुर्जनाः, चौराश्च चोरितकं३ दाप्या नृपेण । ७४. इयं हाटकेन निर्मिता मूर्तिरियं च रजतेन । ७५. तेन चौरेणैकदा चोरिकायां किमपि नापि । ७६. मौहम्मदस्य मतस्य मूलमेव कपटानृताभ्यां निबद्धम् । ७७. चिरं वियुक्तोऽस्मि प्रियवयस्यैः, तेनामी समुत्कण्ठन्ते मयि । ७०. अस्माकमिति शैषिकी षष्ठी । क्रियाग्रहणमपि कर्तव्यमित्यनेन तु सम्प्रदानताया नावकाश इत्यस्माकमित्येव साधु । ७१. हक्रोरन्यतरस्यामित्यणौ कर्तुर्णौ वैकल्पिके कर्मत्वे संयतानिति साधु । वृतु वर्तनेऽकर्मकः । मुञ्जो वर्तते आवर्तते आवृत्तो गुणितो भवति । संयतान्मुञ्जं वर्तयन्ति इति तत्प्रयोगेऽपि कर्मत्वं सुस्थम् । कुट्टे: पिषेश्च प्रयोगे तु कर्मत्वेऽसत्यनुक्ते कर्तरि तृतीयया भवि- तव्यम् । तेन संयतैरिति वक्तव्यम् । तैरिति सर्वनाम्ना वा प्रत्यवमर्शः कार्यः। ७२. पुरोहितायेत्येव साधु । हेतुर्विस्पष्टः । ७३. शिष्टव्यवहारे दापिर्द्विकर्मको दृष्टः । प्रसिध्यन्ति च वितथेन ब्रुवन्द- र्पाद्दाप्यः स्याद्विशतं दमम् (८।२७३) इत्यादयो मन्वादिप्रयोगाः। ७४. हाटकं रजतं वा मूर्तिनिर्माणे करणं न । तथापि प्रकृतिभूते तस्मिन्विकारं प्रति करणत्वेन विवक्षणात्तृतीया नाऽसंगता । अन्यत्रापि कर्मणि करणत्वविवक्षा दृश्यते । अश्वमेधेन यजत इत्यत्र यथा। ७४. करणतृतीयया चोरिकयेत्येव साधु । चोरिका चुरा चौर्यमित्य- नर्थान्तरम्। ७६. करणत्वविवक्षायां कपटानृताभ्यामिति तृतीया निर्दुष्टा । ७७. अधीगर्थदयेशां कर्मणीत्यनेन शेषे षष्ठ्या समुत्कण्ठन्ते ममेति वक्तव्यम् । १. बद्धान् बन्दीरिति यावत् । ३. लोप्त्रम्, चौर्यप्राप्तं धनम् । २. शासनीया दण्ड्या इति बा।