पृष्ठम्:शब्दापशब्दविवेकः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकारः ५३


६१. यो हि विरक्तो नाम१ भूत्वा स्वैरनुरज्यते स लोकमतिसन्धत्ते । ६२. ईश्वरः सर्वेषु चेतनाचेतनेष्वर्थेषु समं व्याप्तः । ६३. सुखं वा दुःखं वा स्वस्य कर्मणां विपाक इति जीवेभ्यः प्रतिपद्यते । ६४. साकारो हि परमेश्वरो देशकालवस्तुषु परिच्छिन्न इति व्यापकता विहन्यते। ६५. ब्रह्म हि विश्वरूपे विवर्तते२ न तु परिणमत इत्यद्वैतिनः शाङ्कराः । ६६. तत्राधिवासिनामार्याणामनार्यसङ्गमात् परिवृत्त: समुदाचारः । ६७. परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् (हितोप०)। ६८. यो दुष्टे वर्त्मनि संचरते स आत्मनि शत्रूयते । ६९. इदं चौपनिषदेभ्यो वचनेभ्यो विरुध्यत इति नेक्षितं भवता । ६१. अनुरज्यत इति कर्मकर्तरि लटि रूपम् । वैषयिकेऽधिकरणे स्वे- ष्विति वक्तव्यम्। ६२. आप्लृ व्याप्तौ सकर्मकः । कर्माविवक्षायामर्थेष्वित्यधिकरणे सप्त- मी सूपपन्ना। ६३. प्रतिपद्यते गच्छतीत्यर्थः । तेन जीवानित्यनभिहिते कर्मणि द्विती- यैव साध्वी। ६४. देशकालवस्तुभिरिति परिच्छेदक्रियाकरणे तृतीयैव युक्ता। ६५. विश्वरूपेणेति तृतीयान्तं साधु । उपपत्तिस्तु पूर्वमुदाहृता । ६६. 'उपान्वध्याङ् वसः' इत्यधिपूर्वस्य वसेराधारस्य कर्मसंज्ञायां तदधिवासिनामित्युपपदसमासेन वक्तव्यम् । ६७. खलर्थप्रत्ययेन योगे षष्ठीनिषेधात् सर्वेषामिति न युक्तम्, सर्वै- रिति तु युक्तम् । शैषिकी वा षष्ठी व्याख्येया। ६८. समस्तृतीयायुक्तात् (१।३।५४) इति लिङ्गात्तृतीयैव साध्वी । दुष्टेन वर्त्मनेति वक्तव्यम् । क्वचित्पथा संचरते घनानामिति (रघु० १३।१६) कालिदासप्रयोगाच्च । ६६. औपनिषदैर्वचनैरिति कर्तर्यनुक्ते तृतीयया भवितव्यम् । उक्ते तु प्रथमा स्यात् । इदं (कर्म) औपनिषदानि वचनानि विरुन्धन्ति । १. नामेत्यलोकेऽव्ययम् । मिथ्या विरक्त इत्यर्थः । २. अतत्त्वतोऽन्यथा प्रथा विवर्तः ।