५२ शब्दापशब्दविवेके
५५. विज्ञापयामि पठकप्रवरांस्ते१ मां पुस्तकान्तर्गताभिस्त्रुटिभिः
सूचयिष्यन्तीति ।
५६. यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजा-
नाति विज्ञानं चास्य रोचते (मनु० ४।२०) ॥
५७. यावन्मार्जारलिङ्गिनो बकवृत्तयो वा लोकस्यार्चिता भवन्ति न
तावद् विद्याया धर्मस्य वाभ्युत्थानं भवितुं शक्यते ।
५८. सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् (मनु० ८।१३) ।
५९. निसर्गत एर्वेन्द्रियाणि भुक्तपूर्वानर्थान् प्रवणानि२ भवन्ति ।
तेभ्यस्तानि प्रत्याहर्तव्यानि ।
६०. भावितात्मानं३ हि पुरुषं धर्माधमौ हस्तामलकवद् भासेते ।
५५. पुस्तकान्तर्गताः त्रुटीरिति द्वितीयान्तमेव साधु । सूचनमिह बोधन
उपचर्यते । तेन कर्मत्वमव्याहतम् । वस्तुतस्तु सूचयतेः शुद्धे बोधने-
ऽर्थे वृत्तिर्न । अहं त्रुटीः सूचयामीत्यस्य त्रुटीर्जानामीति नार्थः,
इत्यणौ कर्तुर्णौ कर्मत्वमपि न। अथावश्यं सूचयतिः प्रयोक्तव्य
इति ग्रह:, माम्प्रतीति वाच्यं षष्ठी वा प्रयोज्या।
५६. रोचते दीप्यत इत्यर्थः । तेन रुच्यर्थानां प्रीयमारण इति सम्प्रदा-
नता नेत्यस्येति षष्ठी साध्वी।
५७. क्तस्य च वर्तमाने इति लोकस्येति षष्ठ्यन्तं साधु । शक्यत इति
शक विभाषितो मर्षणे इति दैवादिकस्योभयपदिनो लटि रूपम् ।
तेनाभ्युत्थानमिति प्रथमान्तं साधु ।
५८. कर्मणि तव्यप्रत्ययेनाऽभिहितत्वात्कर्मणि द्वितीया नोपपन्नेति
चेत् । उच्यते - उद्दिश्येत्यध्याहार्यम् । तत्कर्मेदम् । पदसंस्कारे कर्म-
णोऽविवक्षायां भावे तव्यप्रत्ययः । उत्तरकालं कर्मसम्बन्धे द्विती-
येति कश्चित् । तन्न । षष्ठीप्रसङ्गादिति दुर्घटवृत्तिकारः । मेधा-
तिथिस्तु सभा वा न प्रवेष्टव्येति ऋज्वेव पपाठ ।
५६. अर्थान् प्रतीति वक्तव्यम् । कारकविभक्ते द्वितीयाया अप्रसङ्गात् ।
६०. भावितात्मनः पुरुषस्येति वक्तव्यम् । प्रतिः कर्मप्रवचनीयो वा
प्रयोक्तव्यः । भासतिर्ह्यकर्मकः ।
१. पठतीति पठः, स एव पठकः। २. निम्नानि अभिमुखानीत्यर्थः ।
३. पूतमनसम् ।