कारकविभक्त्यधिकार: ५१
४७. स भगवान् भूमिं सर्वतः स्पृत्वा१ सर्वप्रदेशेष्वधिष्ठित इति पुरुष
इत्युच्यते।
४८. उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनं चेति पञ्च कर्माणि
वैशेषिकैः परिगणितानि । भ्रमणरेचनादीनि गमनस्यान्तर्भ-
वन्तीति पृथङ्नोपात्तानि।
४९. तपः शब्दार्थेऽप्यशिक्षितास्तपसि वर्तन्त इत्यहो साहसिक्यम् ।
५०. एते हि तीर्थध्वाङ्क्षा इवानवस्थिता नैकत्र शक्नुवन्ति चिर-
कालाय स्थातुम् ।
५१. अनभिमतार्थोदयेन संत्रस्ताः केचिज्जिज्ञासामेव निषेधन्ति शास्त्रा-
र्थस्य।
५२. अध्वखेदपरिक्लान्तमेतं तुरंगं शिवकेन२ बधान ।
५३. अयं ग्रन्थो यावानादृतस्तावानस्य समादरोऽल्पीयानेव।
५४. शार्मण्यानां वाङ्मये बहूपादेयमस्तीति तत्रत्यानि कानि चिदुपा-
ख्यानानि संस्कृते परिवर्तने३ प्रसितोऽभूपम् ।
४७. अधिशीङ् इत्यादिनाऽऽधारस्य कर्मसञ्ज्ञायां सर्वप्रदेशान् इति
साधु।
४८. गमनेऽन्तर्भवन्तीत्यधिकरण विवक्षैव नियता ।
४६. अशिक्षिता इत्यजातशिक्षा इत्यर्थ इतचि तद्धिते तपःशब्दार्थ
इति सप्तमी साध्वी । तपःशब्दार्थमशिक्षितवन्त इति वा वक्त-
व्यम्।
५०. अत्यन्तसंयोगे द्वितीया तु न्याय्या। तेन चिरकालायेत्यपशब्दः ।
चिरकालमिति शब्द: ।
५१. भीत्रार्थानां भयहेतुरिति अनभिमतार्थोदयात् इति वक्तव्यम् ।
५२. अधिकरणे शिवके सप्तमी युक्ता ।
५३. यावान् इति ग्रन्थविशेषणत्वेनान्वेति, क्रियाविशेषणं चेष्यते ।
तेन यावदित्येव साधु । क्रियाविशेषणानां क्लीबत्वं कर्मत्वमेकत्वं
चेष्यत इति द्वितीयैकवचनं साधु।
५४. संस्कृतेनेति तृतीयान्तमेव साधु । प्रकृत्यादिभ्य इति तृतीया।
१. स्पृ प्रीतिपालनयोः स्वादिः २. कीलकेन । ३. प्रसक्तः, व्यापृतः ।