शम्दापशब्दविवेके ५०
४०. किं कार्यं ते महाभाग ? भगवन्तमभिवादक एवागतोऽयं जनः
कार्यान्तरं त्वस्य नास्ति।
४१. गङ्गायामाप्लवमानस्य१ कूपेभ्यः किं प्रयोजनम् ?
४२. पितुश्चरणयोर्नमति प्रातरुत्थितो भक्तिप्रह्वस्तनूजः ।
४३. महीं क्षियतीति२ महीक्षिद्राजोच्यते
४४. यदेकस्मै प्रियं नावश्यं तत्सर्वेभ्यः प्रियं भवेत् ।
४५. पञ्चसु वर्गेषु विभक्ताः कादयो मावसाना वर्णाः ।
४६. अधर्मं धर्ममिति यो मन्यते स तमसाऽऽवृतो निरयाय राध्यति ।
४०. अकेनोर्भविष्यदाधमर्ण्ययोरिति षष्ठीनिषेधेऽनुक्ते कर्मणि द्विती-
येति भगवन्तमिति साधु । भगवन्तमभिवादयिष्य इत्यागतोऽस्मी-
त्यर्थः ।
४१. कूपैः किं प्रयोजनमित्येवं न्यासो युक्तः। गम्यमानाऽपि क्रिया
कारकविभक्तेः प्रयोजिकेति वामनवचनात् कूपैरिति करण-
तृतीयान्तं साधु । साधिरत्र गम्यमाना क्रिया ।
४२. अधिकरणविवक्षायां चरणयोरिति साधु ।,
४३. देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणामिति महीमिति साधु ।
४४. प्रियशब्दः कप्रत्ययान्तः । कृद्योगलक्षणया षष्ठ्या एकस्य सर्वेषा-
मिति च वक्तव्यम् ।
४५. कादयो वर्णा विभागस्याश्रयः । विभक्तास्ते पञ्चसु वर्गेषु स्थिता
भवन्ति । वनं वृक्षा इतिवत् समूहस्य समूहिनां चाभेदमविवक्षि-
त्वाऽऽधाराधेयभावं च कल्पयित्वा वर्गेष्वित्यत्र सप्तमी व्यवहरन्ति
लौकिकाः परीक्षकाश्च । वर्गाणां विभागक्रियायां न करणत्वं न
च हेतुत्वम् । तेन तृतीयाऽनवकाशा। अधिकरणत्वं तु बुद्ध्यारो-
पितमस्ति । अस्मिन् सूक्ते कलि ऋच इत्याधारकल्पनयैव सङ्ग-
च्छते प्रश्नः ।
४६. निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिरिति वामनवचनाद्
धर्म इत्येव साधु । प्रातिपदिकार्थे प्रथमा ।
१. स्नानमाचरतः । २. निवसति ।