पृष्ठम्:शब्दापशब्दविवेकः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्ताधिकारः ४९


३२. तनुरियं१ ते तनुरसहिष्णुरातपस्य । तेन मुहूर्तं प्रच्छायशीतले- ऽस्मिंस्तरुतले विधमयात्मानम् । ३३. दूरक्षाः स्त्रिय इति न तासां जन्मन्युत्सवो भवितुं शक्य इति केचिदुत्प्रेक्षन्ते । ३४. यो ह्यध्ययनात्परिग्लानः२ स दुःखं तत्र प्रवर्त्य इति सत्यम् । ३५.सहोदराणामिव परस्परं प्रीतिमन्तः परस्परमनुव्रताश्च लोका अभ्युदयन्ते ।३ ३६. प्रायेण पापो दुर्गतो जनः स्वं कर्मानुपालभ्य परिमृष्यति४ देवाय । ३७. न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे । (मनु० ४।१९२) । ३८. ये वदितारो जनापवादान् ग्रहीतारो वोत्कोचांस्ते५ हीयन्ते पर- त्रेह च शर्मणः । ३९. स्यन्दन्ते६ सरितः सागराय, न च सर्वाः समुद्रगा भवन्ति । ३२. न लोकाव्ययनिष्ठेति सूत्रे इष्णुचोऽपि प्रयोगे निषेध इति वृत्तौ स्थितम् । तेनातपमिति द्वितीयान्तमेव साधु ३३. उत्सवेन भवितुं शक्यमित्येवं साधू करणीयम् । ३४. पर्यादयो ग्लानाद्यर्थे चतुर्थ्ये तिसमासविधानाल्लिङ्गाद् अध्ययना- येति वक्तव्यम्। ३५. सहोदरा इति प्रथमान्तमेव न्याय्यम् । इवशब्दप्रयोग उपमानो- पमेययोर्विभक्तिसाम्यमेवेष्टम् । उपमानं हि विशेषणान्नाति- भिन्नम्। ३६. क्रूधद्रुहेति सूत्रेऽर्थग्रहणाद् दैवायेति सम्प्रदाने चतुर्थी साध्वी। परिमृष्यति क्रुध्यति। ३७. द्विज इत्यधिकरणं विवक्षितम् । तेन सप्तम्यदुष्टा । सममब्राह्मणे दानमित्यत्र यथा। ३८. न लोकाव्ययनिष्ठेति सूत्रेण षष्ठीनिषेधाज्जनापवादान् उत्को- चानिति चोभयं साधु । वदितारः, ग्रहीतार इत्युभयं तृन्प्रत्यया- न्तम् । ३६. क्रियार्थोपपदस्यत्यप्रयुज्यमानाया गमिक्रियायाः कर्मणि चतुर्थ्या सागरायेति साधु । सागरमुपगन्तुमित्यर्थः । १. तनुरल्पा, कृशा । २. क्षीणोत्साहः, असमर्थः । ३. उन्नमन्ति, समृध्यन्ति । ४. असूयति । ५. उपग्राह्याणि। ६. स्रवन्ति ।