पृष्ठम्:शब्दापशब्दविवेकः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८ शब्दापशब्दविवेके


२४. घोरायां निद्रायां शेरतेऽमी अनात्मज्ञाः । २५. परमात्मनि संश्रितः सत्यव्रतो न कुतश्चन बिभेति । २६. भ्रमरो हि भ्रमंस्तत्र पुष्पाणां चिनुते मधु । २७. शान्तो मुनिर्मूदुर्भवविद्विषद्भ्यो मृदुरागस्कृद्भ्यः१। २८. यतिर्नाम न परस्य कस्यचिद् द्वेष्टि न च क्वचित् सविशेष रज्यते । २९. तव चिकीर्षितं देशोन्नत्यभ्युपायं जिज्ञासे । ३०. ब्रह्मैव जगद्रुपे परिणतमित्याहरविद्वांसः । ३१. कामं मुनिवेषोऽयं परं नैष मुनिर्भवितुं शक्यः ।

२४. घोरया निद्रयेति इत्थंभूतलक्षणे इति तृतीया युक्ता । सप्तम्या नार्थः । आधारस्यासत्त्वात् । घोरं निद्राणा शेरत इति प्रका- रान्तरेण वा वक्तव्यम् । २५. श्रयति: सकर्मकः प्रायेण । नहि बहिरुपाधीन् प्रीतयः संश्रयन्त इत्यत्र उत्तरे रामचरिते यथा । तेन परमात्मानं संश्रित इति साधु । क्वचिदकर्मकोऽपि प्रयुक्तो दृश्यत इति यथास्थितमपि साधु । यथा मयि वो रायः श्रयन्ताम् (तै० सं० १।५।६।२)। ऋते भूमि- रियं श्रिता (तै० ब्रा० १।५।५।१) इत्यत्र । संगमनेऽर्थे तृतीयाऽपि दृश्यते---चूतेन संश्रितवती नवमालिकेयम् (शा० ४।१२) । २६. कारकत्वस्यैवाविवक्षायां पुष्पाणामिति साधु । अपादानत्वस्या- विवक्षायां कारकत्वस्य च विवक्षायाम् अकथितं चेति कर्मसंज्ञायां तु द्वितीयैव युक्ता पुष्पाणीति । चिनुते इत्यवपूर्वः प्रयोक्तव्यः । २७. वैषयिकेऽधिकरणे द्विषत्सु, आगस्कृत्सु इति चेष्यते । २८. द्विष अप्रीतौ सकर्मकः, तेन कंचिदित्येव साधु । २९. तवेत्यस्य स्थानेऽनुक्ते कर्तरि तृतीयैव युक्ता । न लोकाव्यय- निष्ठेति कृद्योगलक्षणायाः षष्ठ्या निषेधात् । ३०. जगद्रूपेणेत्येव साधु । प्रकृत्यादिभ्य इति वा इत्थम्भूतलक्षणे इति वा तृतीयैव साध्वी । तथा च शिष्टप्रयोग:-पयो दधिभावेन परि- णमते । ३१. नैनेन मुनिना भवितुं शक्यमित्येवं न्यासो युक्तः। शक्यमित्य- पहाय शक्त इति वा प्रयोज्यमित्यृजुर्मार्गः । १.आगोऽपराधः ।