कारकविभक्त्यधिकारः ४७
१६. देवदत्तोऽधीती व्याकरणे, आम्नाती च च्छन्दसीति धन्यतमः
पुंसाम् ।
१७. आन्दोलयन् विशिखमेककरेण सार्धम् (हनुमन्नाटके ४।१) ।
१८. तौ पापौ शङ्करं गरलं खादयामासतुः ।
१९. यथा तद्भवतिब्यमासीत् तथा भूतम् । भवितव्यतैव गरीयसी।
२०. रामश्चतुर्दशभ्यो वर्षेभ्यो वनं गच्छेद् इत्येको मे वरः ।
२१. त्वया पाठशालां गन्तव्यम्, अतिक्रामति काल: ।
२२. हरीतकीं भुङ्क्ष्व राजन्मातेव हितकारिणीम् ।
२३. पथि श्रेयसि प्रणीय लोकं लोकान्तरं प्रस्थितः श्रीचित्तरञ्जन-
दासः ।
१६ क्तस्ये विषयस्येति कर्मणि सप्तमीति व्याकरणे छन्दसीति चोभयं
साधु।
१७. एककरेणेति करणे तृतीया। तत्र सार्धमित्यनेन नार्थः ।
१८. आदिखाद्योर्नेत्यणौ कर्तुर्णौ कर्मत्वनिषेधात् शङ्करेणेति साधु ।
१९. तेन भवितव्यमित्येव साधु ।
२०. चतुर्दश वर्षारणीत्यत्यन्तसंयोगे द्वितीयैव साध्वी। यद्यपि गमन-
क्रिया क्षणिका न चतुर्दश वर्षाण्यभिव्याप्नोतीति तथापि गमन-
क्रियात्र वासक्रियामन्तर्णयतीति प्रयोक्तुर्विवक्षा । तथा च चतु-
र्दशवर्षव्याप्तिरस्त्येव । चतुर्दश वर्षाणि वत्स्यतीति वनं गच्छेदि-
त्यभिप्रायः । एतज्जातीयकश्च प्रयोगो भारते-- आत्मनो हि वयं
दोषाद् विनष्टाः शाश्वतीः समाः (शां० ७।३२) इति ।
२१. पाठशालेति गमिक्रियान्तर्भूताया उद्दिशिक्रियायाः कर्मेति द्विती-
गमिक्रियाकर्मत्वे तूक्ते कर्मणि प्रातिपदिकार्थ-
मात्रे प्रथमा स्यात् ।
२२. मातेवेति प्रथमाऽनुपपन्ना । मात रमिवेति तु युक्तम् । उपमानोप-
मेययोः समानविभक्तिकत्वनियमात् । मातेव इतीवेन समस्तस्य
हितकारिणीमित्यनेन समासे साध्वेवेति केचित् ।
२३. गत्यर्थानां धातूनां प्रयोगेऽधिकरणत्वस्याविवक्षितत्वात्करणत्वं
विवक्षन्ति शिष्टाः । तेन पथा श्रेयसा प्रणीयेत्येवं वाग्व्यवहारो
ऽनुसृतो भवति ।