४६ शब्दापशब्दविवेके
९. वाहयति रथं वाहैः सूतः ।
१०. महात्मनो दर्शका जना नानादिग्देशेभ्यः संनिपतन्ति ।
११. दुर्बला: प्रबलेभ्यो नमस्कुर्वन्ति शिष्टाश्च दुष्टेभ्यः ।
१२. भगवता सूत्रकारेण स्वं शास्त्रमष्टास्वध्यायेषु निबद्धमित्यष्टाध्या-
यीसमाख्यया तत् प्रथते।
१३. को नाम सुधीश्चलाचलान्प्राणान् प्रति मानं यच्छेत् ?
१४. प्रात्ययिकं, कार्यं सम्मन्त्र्यमिति वसुधाधिपः सभासदः सभामाहूत-
वान् ।
१५. उभयोर्नाशोऽवश्यं भाव्यः ।
९. वाहानिति वक्तव्यम् । नीवह्योर्नेति निषेधो नियन्तृकर्तृ कस्य न ।
तेन गत्यादिसुत्रेणाणौ कर्तुणौ कर्मत्वम् ।
१०. महात्मानं दर्शका इत्येवं वाच्यम् । अकेनोर्भविष्यदाधमर्ण्ययोः
(पा० २।३।७०) इति कृद्योगलक्षणायां षष्ठ्यां निषिद्धायामनुक्ते
कमणि द्वितीया।
११. उपपदविभक्तेः कारकविभक्तिर्बलीयसीति प्रबलान्. दुष्टानिति
च युक्तम् । प्रबलान् दुष्टाननुकूलयितुमित्यर्थविवक्षायां क्रियार्थो-
पपदस्य च कर्मणि स्थानिन इति वा चतुर्थी समाधेया।
१२. अष्टास्वध्यायेष्विति यथास्थितं साधु । बध्नातिप्रयोगे कर्मादि-
व्यतिरिक्ते विषयेऽधिकरणं विवक्षन्ति शिष्टा इति बन्धे च
विभाषा (६।३।१३), नेन्त्सिद्धबध्नातिषु चेति (६।३।१९) सूत्रद्वयं
ज्ञापकम् । इहाध्याया आधार इति विवक्षिताः ।
१३. प्रतिः प्रतिनिधिप्रतिदाने च यस्मात् (१।४।९२) इति कर्मप्रवच-
नीययुक्ते पञ्चमी। तेन चलाचलेभ्य: प्राणेभ्य इति स्यात् ।
चरिचलिपतिवदीनामित्यादिवार्तिकेनाचि प्रत्यये द्वित्वेऽभ्या-
सस्यागागमे चलाचल इति साधु । अत्राचलशब्द उत्तरपदमस्तीति
मा स्म शङ्किष्ठाः।
१४. न हि ह्वयतिर्द्विकर्मकः, तेन सभां प्रतीति वक्तव्यम् ।
१५. भाव्य इति कृत्यप्रत्ययान्तम् । ओरावश्यक इति ण्यत् । भावे
चायं प्रत्यय इत्यनुक्ते कर्तरि तृतीया, तेन नाशेनेति साधु । भावो
नपुंसकमिति नाशेन भाव्यम् इति वक्तव्यम् ।
१. प्रत्ययः विनाशः प्रयोजनमस्येति । विलम्बासहम् इत्यत्रार्थे उपचर्यते ।