पृष्ठम्:शब्दापशब्दविवेकः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८ शब्दापशब्दविवेके


१८५. अयाचितारं नहि देवदेवमद्रिः सुतां ग्राहयितुं शशाक (कु०)। १८६. सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ।। (शिशु० १।२५) १८७. अकितोपपन्नं वो दर्शनं प्रतिभाति मे । १८८. स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः (कु० ६।५२) । १८९. साम्प्रतमुत्तरभारताद् हिन्दूराज्यमेकान्ततो विलुप्तम् । १९०. पयःपानं भुजङ्गानां केवलं विषवर्धनमिति जानन्तोऽपि हिन्दव- स्तेभ्यः पयः पाययन्त्येव । १८५. देवदेवमित्यत्र द्वितीयानुपपन्ना। न हि ग्राहिर्द्विकर्मकः। कालि- दासोऽप्यन्यत्र रघुवंशे (२।१) जायाप्रतिग्राहितगन्धमाल्यामित्यत्रास्य द्विकर्मकतां नेच्छति । तेन स्थितस्य गतिश्चिन्तनीयेति ग्राहयि- तुमुद्वाह्यत्वेन बोधयितुमित्यर्थस्य विवक्षणात् समाधिमाहुः । १८६-अत्र गत्युपसर्जना प्राप्तिर्लभेरर्थः । तेन गत्यादिसूत्रेणाणौ कर्तुर्णौ कर्मत्वं न । सितिमा सितं मुनेर्वपुर्लभत इत्यणौ वाक्यम् । १८७-क्रियाग्रहणमपि कर्तव्यमिति सम्प्रदानसंज्ञायां चतुर्थी न्याय्या। प्रतिभातियोगे प्रायेण द्वितीया दृश्यते यथा त्रितं कूपेऽवहित- मेतत् सूक्तं प्रतिबभावित्यत्र निरुक्ते। सा ततोऽन्यत्रापि दृश्यत इति वचनेन समाधेया। १८८-गत्यर्थत्वाभावात्तैरित्यत्र कर्मसंज्ञा नेति मल्लिनाथः । तन्न संग- च्छते । क्रमेर्गत्यर्थत्वस्यापह्नवायोगात् । प्रकृते प्रवेशयामासेत्यर्थः । स च न गतिव्यतिरिक्तः । इदं च निरस्तसमस्तदोष पाठान्तरं दृश्यते--स तानाक्रमयामास शुद्धान्तं शुद्धकर्मण इति । १८९-विलुप्तमिति नष्टमित्यर्थे कर्तरि क्त । अविवक्षितकर्मा लुपिर- कर्मकः । उत्तरभारताद् इत्यपादाने पञ्चमी । सा नष्टा बाण- पुरात्तदेति भारते प्रयोगः । १९०-तान्पाययन्तीत्येव साधु, प्रत्यवसानार्थत्वात्पिबतेः ।