पृष्ठम्:शब्दापशब्दविवेकः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४ शब्दापशब्दविवेके


११०. गन्धर्वीणां नरीणां च किन्नरीणां शतं शतम् (स्कन्द० का० ४।८२।८६)। १११. चिन्ता बहुतरी तृणात् (भा० वन०) । ११०. नूनरयो वृद्धिश्चेति वृद्धौ नारीति स्यात् । नरस्य स्त्री नरीति पुंयोगलक्षणे ङीषि नरीत्युपपन्नम् । किञ्चिन्नरी किन्नरी- त्यर्थादिदमपि साधु। १११. बहुतर शब्दात्तरबन्ताट् टाबेवोत्पत्तुमर्हति न तु ङीब्ङीष्ङीनः । बहुतरेत्येव शब्द इति पाणिनीयाः । इति स्त्रीप्रत्ययेषु विवेचनम् ।