पृष्ठम्:शब्दापशब्दविवेकः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्रीप्रत्ययाधिकारः ४३


१०३. नानारूपधरी नटी (करुणा० ८३) । १०४. सिद्धिर्न मुक्तिङ् करी (करुणा० ८३) । १०५. राधे हरिनायिके भगवति (करुणा० १०१) । १०६. तदमन्दरसस्यन्दसुन्दरेयं निपीयताम् । श्रोत्रशुक्तिपुटैः स्पष्टा साङ्गराजतरङ्गिणी (राज० १।२४) ।। १०७. मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः (का० सू० वृ० १।२। १३ इत्यत्रोद्धृतः श्लोकः)। १०८. सर्वपारसवीं तीक्ष्णां महोल्काप्रतिमां (शक्तिं) तदा (भा० कर्ण० २९।२३)। १०६. योजनानां शतं साग्रं हयया प्रत्यपद्यत (हरि० १।२९।४ भण्डा- कर सं०)। १०३. नानारूपधरी । अत्र धरशब्दो ऽच्-प्रत्ययान्तः। स्त्रीत्वविवक्षायां नातो ङीप्ङीष्ङीनामन्यतमः प्रत्यय: सहते समुत्पत्तुम् । तेन नानारूपधरेति टाबन्त एव साधुः । १०४. मुक्तिङ्करी । अपशब्द एवायम् । क्षेमप्रियमद्रेऽरण् चेति क्षेमादि- ष्वेवोपपदेषु कर्मसु करोते: खच् विधीयते । खचोऽभावे नुमो ऽभावः । तेन मुक्तिकरीत्येव टप्रत्यये साधु । १०५. हरिनायिके इत्यत्रेत्त्वं दुष्यति । हरियकोऽस्यास्तत्सम्बुद्धौ हरिनायिके इति रूपं न सिध्यति । प्रत्ययस्थात्कात्पूर्वादत इदाप्य- सुप इत्यसुप इत्युक्तेरित्त्वं दुर्लभम् । तेन 'हरिनायके' इति निर्दुष्टं रूपम् । १०६. सुन्दर शब्दो गौरादिषु पठ्यते । तेन ङीषि सुन्दरीत्येव साधु । १०७. सुकुमार शब्दे कुमार शब्दोऽनुपसर्जनम् । तत्पुरुषस्योत्तरपदार्थ- प्रधानत्वात् । वयसि प्रथमे (४।१।२०) इत्यनुपसर्जनात् (४।१।१४) इति प्रकरणे पठितम् । तेन कुमारशब्दाद् विहितो ङीप् सुकुमार- शब्दादपि भवति । सुकुमार इति कोमलमाह । कुमारस्तु वयो- वचन एव । १०८. तिरस्कारविनाशे च पुंसि पारसव इति मेदिनी। सर्वस्य पार- सवो नाशो यस्मात् सा सर्वपारसवेति स्यात् । डीप्डीष्डीनां नैक- तमोपि प्रसक्तः। १०९. यशब्दो गौरादिषु पठ्यते, तेन ङीषि हयीत्येव शब्द: । योपध- प्रतिषेधे हयगवयमुकयमनुष्याणामप्रतिषेध इति वा ङीष् ।