४२ शब्दापशब्दविवेके
९८. आमन्त्रयस्व सहचरीम् । उपस्थिता रजनी।
९९. धात्री कराभ्यां करभोपमोरुः ।
१००. कथं कन्यामिव श्रीमपि कुत्सयन्तः ।
१०१. सोदयौं गलदश्रुपूर्णनयने गाढं समश्लिष्यताम् । (क्रिस्तु० २८॥
३८)।
१०२. पट्वीं कृष्णविलोचनाब्जमधुपां राधे दृशं तां श्रये (करुणा० २९)।
९८. सहचरीमिति निर्दुष्टम् । समाधिरसकृत्पूर्वत्रोक्तः ।
९९. करभोपमोरुः । अत्र ऊरूत्तरपदादौपम्ये इति सूत्रेण ऊङ् न
भवति । उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ्
इति सूत्रार्थः । अत्र यद्यपि करभ इत्युपमानं तथापि पूर्वपदं न
भवति । ऊरूत्तरपदं प्रति करभोपम इत्यस्य पूर्वपदत्वात् ।
१००. कृदिकारादक्तिन इति ङीषोऽप्रसङ्गः । कृत्प्रत्ययस्य य इकार
इति व्याख्यानात् । धात्विकार एवात्र दीर्धीभूतः । कृदन्तं यदि-
कारान्तमिति पक्षे तु यद्यपि ङीष्प्राप्तिरस्ति, तथापि कारग्रहण-
सामर्थ्येन केवलस्येकारस्य ग्रहणादिकारान्तपक्षो दुर्बल इत्याहुः ।
मैत्रेयरक्षितस्तु ङीषि श्रीमिच्छति ।
१०१. समानोदरे शयित इति यति विवक्षित एव विभाषोदर इत्यनेन
वैकल्पिके समानस्य सभावे समानोदर्य: सोदर्य इति रूपे । स्त्रियां
सोदर्याट्टापि सोदर्येति स्याद् द्विवचने च सोदर्ये इति । सह समान-
मुदरमस्येति सहोदरः सोदर इति वा। ततः स्त्रियां सह शब्दे
पूर्वपदे सह-नञ्-विद्यमानपूर्वपदाच्चेति ङीषो निषेधे टापि सहो-
दरा सोदरेति रूपे। एवं सोदरे इति प्रथमाद्विवचने रूपम् । तेन
सोदर्याविति स्त्रियां दुः समाधानम् ।
१०२. कृष्ण विलोचनाब्जमधुपाम् इत्यत्र मधुपशब्दाद् भ्रमरवचनाट्
टाब्विहितः स दोषः । नायं क्रियाशब्दः, जातिवचन एवात्र
विवक्षित: । दृग्घि भ्रमरीत्वेन रूप्यते। जातिवचनत्वेऽपि नातो
ङीषुत्पद्यते । स्त्रीत्वविवक्षाविरहात् । पुंस्येव मधुपशब्दं व्यव-
हरन्ति कुशला व्यवहारः, यथा मत्स्यामपि मीन इति पंसि ।