स्त्रीप्रत्ययाधिकारः ४१
९१. आपो नारा इति प्रोक्ता आपो वै नरसूनवः (मनु० १।१०) ।
९२. अर्जुनो विदधे मृत्युं प्राकृतां दुद्धिमास्थित: (रा० १।७५।२४) ।
९३. अयादवीं क्षमां करिष्ये पौरुषं मम पश्यत (भा० पु० १०।७६।३) ।
९४. काव्यशैलिश्चात्र सुगमा ललिता चेति स्पष्टम्।
९५. यस्या गर्भाच्च जाता जनकद्रुपदजाऽग्रेसरा भर्तृ देव्यः ।
९६. कथं प्रमाणायां स्मृताविति शाबरभाष्ये ।
९७. शक्तिं बाणस्ततः क्रुद्धो घोररूपां भयानकाम्।
जग्राह......... (हरि० २।११९।६०) ।
९१. नराख्यस्य परमात्मन: सूनवोऽपत्यमिति नाराः । तस्यापत्यमि-
त्यण् । अणि कृते डीप् प्रसक्तः, स नेह भवति । स्मृतिषु च्छान्द-
सलक्षणैरपि व्यवहारदर्शनात् । छन्दसि च सर्वे विधयो विकल्प्यन्त
इति पाक्षिको ङीप् । तस्याभावपक्षे सामान्यलक्षणष्टाप् ।
९२. प्रकृतेरागता प्राकृतीति स्यात् । तत प्रागत इत्यणि ङीपि रूपम्।
९३. अविद्यमाना यादवा यस्यां साऽयादवा। अनुपसर्जनाद् इत्यधि-
कारादुपसर्जनादण् णन्ताद् यादवशब्दान्ङीब्न । सामान्यलक्षण-
ष्टाप् ।
९४. शैलिरित्यपभ्रष्टम् । शीलादागता शैली। तत प्रागत इत्यण्
ततो ङीप् ।
९५. जाता इति बहुवचनम् । भर्तृ देव्य इत्यपशब्दः । भर्ता देवो यासां
ता भर्तृ देवाः । देव इति पचादिषु टित्पठितः । तथाप्युपसर्जनत्वा-
ट्टित्वलक्षणो ङीब्न भवति ।
९६. अत्र भट्टाः-प्रमाणमयते याति मूलभूतां श्रुतिं यतः । क्विबन्ताद-
यतेस्तस्मात्प्रमाणा स्मृतिरुच्यत इत्याहुः । तत्रेदं दूषणम्-अयते:
क्विपि लोपो व्योर्वलीति यलोपे ह्रस्वस्य पिति कृति तुग् इति
तुकि सति टाप् दुर्लभः । आगमशास्त्रस्यानित्यत्वात्तुङ् नेति कथं
चित् समाधेयम् । अन्ये तु प्रमाणं वेदस्तद्वदाचरतीत्याचारक्वि-
बन्तात्प्रमाणशब्दात्पचाद्यचि टाबित्याहुः ।
९७. आनकः शीङ् भिय इत्यौणादिकसूत्रेण बिभेतेरानक: प्रत्ययः ।
प्रत्ययस्थात् इत्यापि कात्पूर्वस्येकारादेशः प्राप्तः क्षिपकादीनां चेति
वार्तिकेन निषिध्यते । वार्तिकोक्ता गणा आकृतिगरणा इति
सिद्धान्तात् भयानकादीनां ग्रहणम् ।