४० शब्दापशब्दविवेके
८५. कौसल्ययाऽसावि सुखेन रामः प्राक् केकयीतो भरतस्ततो भूत्
(भट्टि० १।१४)।
८६. फलमुखी कारणमुखी चानवस्था ।
८७. सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी ।
८८. त्वां विना न क्षणमपि जीवेयम् । न हि सलिलमति जीवति
मीना।
८९. ततः तनयस्य स्वस्त्ययनाय सर्वदेवताकीर्तनपुरःसरीमाशिषमाच-
चक्षे (चम्पू रा० पृ० ११०)
१० गुरुणानुज्ञातः स्नात्वाऽसमानार्षेयामवरवयसीं सदृशीं भार्यां विन्देत
(वासिष्ठ ध. सू. ८।१)।
८५. पुंयोग इति दम्पतिभाव एवेति नाग्रहः । योगः सम्बन्धः । स चेह
जन्यजनकभावलक्षणोपि गृह्यत इति तत्त्वबोधिनीकारः । तेन
केकयशब्दात्पुंयोगे ङीष् सिद्धः । वयं तु मन्यामहे योगशब्दो
विवाहलक्षणे सम्बन्धे रूढ इति योगाभावात्केकयीत्यत्र ङीष्
दुर्लभः । आत्मा वै जायते पुस्त्र इत्यभेदोपचारात्तु केकयः पिता
केकय: पुत्त्रः । गोत्रं च चरणैः सहेति वचनादपत्यार्थो जातिवचन
इति जातिलक्षणे ङीषि केकयीति साधु ।
८६. अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थम् इति स्वाङ्गलक्षणान्मुखमिति
प्राणिस्थत्वाभावात्स्वाङ्गं न । मुखमिह द्वारमाह । मुखसादृश्या-
न्मुखमुच्यते । तेन ङीषोऽप्रसङ्गात्फलमुखीत्यादि प्रामादिकमेव ।
८७. गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेरिति
वचनानुरोधात्क्रीतशब्देन समासे क्रीतात् करणपूर्वादिति ङीष्
स्यात् । गतिकारकेति वचनं प्रायिकमिति सुबन्तेन क्रीताशब्देन
समासे त्वदन्तत्वाभावान्डीषोऽप्रसङ्गः ।
८८. मीनेति टाबन्ता प्रकृतिर्नास्ति । मीनो मत्स्यः । स्त्रीत्वविवक्षायां
तु मत्सीति प्रयोज्यम्।
८९. समस्तदेवताकीर्तनपुरःसरीमित्यसाधु । अनुपसर्जनादित्यधिका-
राद् बहुव्रीहौ समासे पुरःसरशब्दस्योपसर्जनत्वाट्टित्वलक्षणो ङीब्न
प्राप्नोति।
९०. अवरवयसीत्यपशब्दः । अवरं वयो यस्या: साऽवरवयाः । स्त्री-
प्रत्ययमात्रस्याप्राप्तेः । ताम् अवरवयसम् ।