पृष्ठम्:शब्दापशब्दविवेकः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्रीप्रत्ययाधिकारः ३९


७७. आत्यन्तिकेषु कार्येषु नारी कार्या पुरः सरा। ७८. इयं शूद्रा, इयं शूद्री, इयं च महाशूद्री । को विशेषः । ७९. पुरीं निर्यादवीं कृत्वा विचरिष्याम्यहं सुखी । (हरि० १।२८।३९) । ८०. दिष्ट्या समानी खलु तवात्मजानां त्वय्यनुरक्तिः । ८१. प्राकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् (पा० ४।१।६३ सूत्रे श्लोकवार्तिकम्। ८२. कण्डतिर्वपनादपैति शिरसः । ८३. देवदत्तस्य भार्या प्राज्ञा, तस्य भगिन्यपि प्राज्ञी । ८४. तद्दर्शितपथीं कुर्वे वृत्ति शिशुविबोधिनीम् (का० श्रौ० सूत्रवृत्तौ मङ्गलश्लोकः )। ७७. पुरोऽग्रतोऽग्रेषु सर्तेष्ट प्रत्यये टित्त्वान्ङीपि पुरःसरीत्येव शोभनं वचः। ७८. शूद्रा चामहत्पूर्वा जातिरिति जातावर्थे ङीषोऽपवादष्टाब् भवति । शूद्रीति च शूद्रस्य स्त्रीति पुंयोगे ङीष् । महाशूद्रीत्यत्रापि जाति- लक्षणो ङीष् । आभीरी तु महाशूद्री । ७९. निर्गता यादवा यस्याः सा ताम् । अत्र बहुव्रीहौ ङीपोऽप्राप्तेऽजा- द्यतष्टाब् इति टापि निर्यादवाम् इत्येव साधु । ८०. छन्दस्येव समानीति भवति समानी प्रपा सह वोऽन्तभागः (ऋ० ) शास्त्रं च केवलमामकेत्यादिनाच्छन्दस्येव समानशब्दान्ङीपं विधत्ते । तेन टापि समानेति वक्तव्यम् । ८१. आकृतिर्ग्रहणं यस्या इति बहुव्रीहिः । गृह्यतेऽनेनेति ग्रहणम् । करणे ल्युट् । सामान्ये नपुंसकम् । ८२. कण्डूतिरित्यत्र क्तिन्दुर्लभः। कण्ड्वादिभ्यो यकि अप्रत्ययाद् इत्यकारे कृत्प्रत्यये टापि 'कण्डूया' इति रूपम् । सम्पदादित्वात् क्विपि तु कण्डूरित्यपि। ८३. 'प्राज्ञा' इति प्रज्ञाश्रद्धार्चाभ्यो णे तद्धिते स्त्रियां टापि साधु । प्रज्ञा बुद्धिरस्या अस्तीति प्राज्ञा । प्रज्ञः (प्रजानातीति) एव प्राज्ञः । स्वार्थेऽण् । टिड्ढारणञ् इति ङीपि प्राज्ञीति साधु । प्रज्ञा तु प्राज्ञी प्राज्ञा तु धीमतीत्यमरः । ८४. तेन दर्शित: तद्दर्शितः । तद्दर्शितः पन्था यस्याः सा, ताम् इति विग्रहे तद्दर्शितपथाम् इति टापि भवितव्यम् । ऋक्पूरब्धूरित्यनेन अ-समासान्तस्तद्धितः । नस्तद्धित इति टिलोपः ।