पृष्ठम्:शब्दापशब्दविवेकः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3६ शब्दापशन्दविवेके


५१. किङ्करा इमाः स्त्रियः स्वामिनि भक्तिमत्यः सर्वात्मना नियोगं निर्वाहयन्ति । ५२. तामैक्षन्त क्षणं सभ्या दुःशासनपुरः सराम् । ५३. विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना (अमरे)। ५४: पीवरोरु ! पिबतीव बर्हिणः (कुमारे) ५५. संचयशीलेयं भिक्षुणी न मात्रयाप्यपरिग्रहव्रतं चरति । ५६. सुधाधरीस्तस्य वाचो निशम्यानास्वादितपूर्वं कमपि रसमन्व- भूवम् । ५७. इदानीन्तनासु भाषासु संस्कृत इव समुदायावयवानामभिव्यक्ति- र्नालोक्यते। ५८. आविष्कारप्रधाना विंशतितमेयं शताब्दी विलासप्रियत्वं वर्धय- तीति नापरोक्षम् । ५९. पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । ५१. किंयत्तबहुष्वच् इत्यचि किङ्करा इति साधु । क्रियाशब्दोयऽम् । जातिवाचित्वे तु ङीषि किङ्कर्य इति स्यादेव । ५२. दुःशासनः पुरःसरो यस्यास्तामिति विग्रहः । तेन पुरःसर-शब्द उपसर्जनम् । टप्रत्ययान्तत्वेऽप्यनुपसर्जनादित्यधिकारादत्र टिल्ल- क्षणो डीब्न । ५३. भीरुरित्यत्र ऊङ् उत इत्यूङ् मनुष्यजात्यविवक्षायां न कृतः, तेनादोषः । ५४. संज्ञापूर्वको विधिरनित्य इति ह्रस्वस्य गुण इत्यस्याप्रवृत्तेः 'पीव- रोरु' इति सम्बुद्धौ साधु । ५५. भिक्षुणीति प्रमाद एवायम् । भिक्षु भिक्षुत्वं नयति प्राप्नोति इति नयतेः क्विपि, कृदिकारादक्तिन इति ङीषि सिद्धमिति दुर्घट- वृत्तिकारः । तदिदं वैयाकरणस्य व्यायाममात्रम् इति वयम् । ५६. सुधाया धर इति धर-शब्दः पचाद्यजन्तः, सुधाधराः, इत्येव साधु । ५७. ट्युल्प्रत्यये इदानीन्तनीष्वित्येव साधु । ५८. डटि तमडागमे च स्त्रियां ङीपि विंशतितमीति साधु । ५९. चत्वारः पादा अस्या इति बहुव्रीहौ चतुष्पदी। पादोऽन्यतरस्या- मिति ङीप् । पक्षे चतुष्पात् ।