पृष्ठम्:शब्दापशब्दविवेकः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्रीप्रत्ययाधिकारः ३७


६०. बहुश्रेयसी वैदिकधर्मरक्षेति वेद१ आम्नातिनः । ६१. कस्येयं रम्या रशना त्रिसूत्री ? ६२. इयमार्षा भणितिः कस्य नाम नावर्जयति चेतः ? ६३. यदि बुद्धिरेव' ग्रन्थानामादेयानादेयत्वे प्रमाणा तदा किं नाम वेदा- दीनां स्वतः प्रामाण्यं स्यात् ? ६४. ते प्रभविष्णवः प्रभवन्ति नः तेषु वयं काष्ठपुत्तलिकामात्रा एव स्मः । ६५. अविनश्वराऽऽकल्पान्त२ स्थायिनी कीर्तिरस्य महात्मनो भविष्यति येन चिरं परदास्यं गतोऽयं देशः स्वातन्त्र्यं लम्भितः । ६६. स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा। इति भारतमाख्यान मुनिना कृपया कृतम् (भा० पु० ४।२५) । ६७. महत्खल्वन्तरं देवदत्तस्य च यज्ञदत्तस्य च । असावस्य शत- तमामपि कलां नार्हति। ६०. उगितश्चेति ङीपि बहुश्रेयसीति साधु । बहूनि श्रेयांस्यस्या इति विग्रहः। ६१. त्रीणि सूत्राणि यस्या इति बहुव्रीहौ ङीब्दुर्लभः, त्रिसूत्रेति तु साधु । कथञ्चिद् द्विगुसमासाश्रये तु न दोषः । ६२. अरिण तद्धिते स्त्रियां ङीपि पार्षीत्येव साधु ६३. प्रमाणमित्यजहल्लिङ्गवचनम् । प्रमाणायां स्मृताविति प्रयु- ञ्जाना मीमांसका अप्युपेक्ष्याः । ६४. मात्रशब्दोऽवधारणे वर्तमानो नपुंसकम् । अत्रार्थे चेदं नित्यमेक- त्वे व्यवह्रियते । यथा ऋगेव ऋङ्मात्रम् । तेन पुत्तलिकामात्र- मित्येव साधु । ६५. इण्नश्जिसर्तिभ्यः क्वरप् इति क्वरपि स्त्रियां ङीपि अविन- श्वरीत्येव साधु । ६६. श्रुतिगोचर इत्येव साधु । श्रुतेर्गोचर इति विग्रहः । अस्य साधुत्वे हेतुः पूर्वमुक्तः। ६७. शततमीमपीत्येव साधु । डटि तमडागमे स्त्रियां डीपि शततमीति रूपम् । शततमी कलेति व्यवहारेण विरुध्यते । षोडशैव हि कला भवन्तीति यथास्थिते वाक्ये व्यवहारव्यभिचारलक्षणोऽपरो दोषः । १. वेद इति सप्तम्यन्तम् । आम्नातमभ्यस्तमेभिरिति आम्नातिनः । तस्ये न्वि- षयस्य कर्मण्युपसंख्यानमिति कर्मवाचिनि वेदशब्दे सप्तमी। २. माकल्पान्तं तिष्ठतीत्येवंशीला ।