३४ शब्दापशब्दविवेके
३३. यत्र दैवी सम्पदा, विलयमेति तत्र विपदा उपनमन्ति ।
३४. नैजां क्षमतां तावत्प्रसाधय ततो यद्वाञ्छसि तत्ते भविष्यति ।
३५. अथार्थगुर्वी प्रसन्नां मधुरां वाचमवोचदच्युतः ।
३६. इयं व्याकरणपद्धती सुदूरं प्रकृष्यते पद्धत्यन्तरेभ्यः ।
३७. त्वां कामिनो मदनदूतिमुदाहरन्ति (कुमार०) ।
३८. इमाः समुत्सादकराः प्रथाः सर्वात्मना निरोद्धव्याः ।
३६. सिन्धुदेशे महेजोदाड़ोरित्यत्र चिरन्तना मृन्मया काश्चन मुद्रा
अप्युत्खानकैर्लब्धाः।
४०. परं हि प्रावीण्यमस्याहतस्य१ प्राकृतायां वाचि ।
४१. केषां वा नावतंसायते श्रवणयुगलीं प्रति कुन्दकुसुमावदाता कीर्ति-
रेषाम् ।
४२. गभीरोऽयमर्थो न सहसाऽवसेयः, विवेकिनामपि सन्देहदोलास्पदां
करोति मनीषाम् ।
३३. सम्पदादिभ्यः क्विप्, इति क्तिन्नपीष्यते इति च वार्तिकद्वयेन
सम्पद् विपद्, सम्पत्तिः, विपत्तिः इति साधुरूपनिष्पत्तिः । अयं
क्विप् स्त्र्यधिकारोक्त इति भागुरिमतेनाप्यापोऽनवसरः ।
३४. नैजशब्दोऽणन्तः । स्वार्थेऽण् । तेन नैजीमित्येव साधु ।
३५. गुणवचनाद् गुरुशब्दाद् वोतो गुणवचनादिति ङीषि पश्चादर्थेन
सह समासः।
३६. बह्वादिभ्यश्चेति विकल्पेन ङीषि पद्धतीति साधु ।
३७. मदनदूतिमित्ययं प्रमादः । दूतशब्दाद् गौरादित्वान्ङीषि दूतीत्येव
साधु । दूङ् परितापे इत्यस्मात् क्तिचि दूतिरिति केचित् ।
३८. टप्रत्यये समुत्सादकर्य इत्येव साधु टिल्लक्षणे ङीपि ।
३६. चिरन्तन्यः, मृन्मय्य इत्येव साधु । पूर्वत्र ट्युल्प्रत्ययः, अपरत्र च
मयट् । टित्वान्ङीप् ।
४०. प्रकृतेरागता प्राकृती इति तु न्याय्यमणि तद्धिते स्त्रियां च ङीपि ।
४१. श्रवणयुगलीत्यपशब्दः । युगलशब्दस्य गौरादिगणेऽपाठात् । श्रव-
णयुगलमित्येव तु शब्दः ।
४२. सन्देहदोलाऽऽस्पदं यस्यास्तामिति बहुव्रीहिः । तस्य च विशेष्य-
निघ्ने लिङ्गवचने इति स्त्रीलिङ्गता।
१. आर्हतो जैनः ।