स्त्रीप्रत्पयाधिकार: ३३
२४. विंशतिहायनीयं शालाऽद्यापि सद्यो निमितेव भाति ।
२५. इयं जरती, इयं च यूनी। तथाऽपि पूर्वा वपुष्मती सर्वदोद्युक्ता
च । अपरा कृशा तुन्दपरिमृजा च ।१
२६. परस्य युवती रम्यां सस्पृहं नेक्षते कः ।
२७. पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी।
२८. आश्चर्यम् । नेयमुक्तिरस्माकं श्रुतिगोचरी पुराऽभूत् । तेनैतां
प्रत्येतुं न पारयामः ।
२९. सुन्दरयाऽनया शैल्या शिक्षिताश्छात्राः संस्कारं कमपि लप्स्यन्ते
नूनम् ।
३०. सेयं सेव्यतां सुधीमिः सुरसरिदिव पावना देववाणी।
३१. सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवमुत्पतन्ति ।
३२. उषः ! चिरायुषी भूयाः, सुखं च जीव्याः ।
२४. विंशतिहायनेयमिति तु युक्तम् । हेतुरुक्तपूर्वः ।
२५. यूनीत्यपाणिनीयम् । 'यूनस्तिः' इति युवतिरित्येव भवति ।
२६. युवतीमित्यपशब्दः । यूनस्तिरिति स्त्रीप्रत्ययस्तद्धितः, तेन स्त्र्यर्थ-
स्योक्तत्वादपरेण स्त्रीप्रत्ययेन नार्थः। विधायकं च नास्ति । बाढं
यौतेः शतरि स्त्रियां ङीपि रूपं लभ्यतेऽर्थस्तु द्वितीयत्रयोलक्षणो
नोपलभ्यते । अर्थनित्यः परीक्षेतेति नैरुक्तसमयो वैयाकरणस्यापि
मान्यः ।
२७. हरतेरनुद्यमनेऽच् इत्यचि स्त्रियां टापि धनहरेति भवितव्यम् ।
२८. श्रुतिगोचरीत्यशुद्धम् । श्रुतेर्गोचर इति श्रुतिगोचर इति षष्ठी-
समासः । गोचरशब्दश्च गोचरसंचरेति सूत्रेण घप्रत्ययान्तः ।
घाजन्त इति लिङ्गानुशासनेन च घप्रत्ययान्तः पुंसि नियतः ।
२९. षिदगौरादिभ्यश्चेति ङीषि सुन्दर्या इति (तृतीयान्तं) साधु ।
३०. पावनशब्दो ल्युडन्तः, तेन टित्त्वान्ङीपि पावनीति साधु ।
३१. सरिते इति भागुरिमतेन प्रापि प्रत्यये समाधेयम् ।
३२. चिरायुर्भूया इत्येव प्रयोगः । ङीप्डीष्ङीनामप्राप्तेः । अदन्तात्त-
द्विधेः ।
१. अलसा।