पृष्ठम्:शब्दापशब्दविवेकः.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७८ शब्दापशब्दविवेके


२६४. राधे ते करुणाकटाक्षलहरी नीलाम्बुजस्पर्धिनी (करुणा०२) । २६५. सौभरिः पुण्यमूर्त्तिः"बचनसुधां योक्तुमीहे (मोह० १।१३) । २६६. आसन्नविंशकपलैः समुपासमानम् (मोह०६।२७) । २६७. मुहुर्मुहुरबोध्यहं सकलशास्त्रगूढाशयम् (मोह० ७।१८) । २६८. कांश्चिच्चन्द्रच्छविरिव मुखं सौभरेः पीयमानान् (मोह० ४।२२)। २६९. भावत्कं यत्र नहि देग्धि कदापि चित्तम् (मोह० ६।१६) । २७०. कचप्रपञ्चे सुपरीमलाढये (मोह० ३।३१) २७१. सा चातकीव सुतमैक्षत जीवमूतम् (क्षत्रपति० १४।५४) २६४. राधे ते अत्र युष्मद एकवचनान्तस्य षष्ठीस्थस्य 'ते' इत्यादेशोऽ शक्यः कर्तुम् । पदात् (८।१।१७) इत्यधिकारात् पदात् परस्यैव स आदेशः शिष्यते । राधे इत्यामन्त्रितम् । प्रामविन्तं पूर्वमविद्य- मानवत् (८।१।७२) इति तस्याविद्यमानवत्त्वात्पदात्परत्वं न, तेन तवेत्येव सुवचम् २६५. सौभरिः योक्तुमीहे। अत्रोत्तमपुरुषैकवचनप्रयोगश्चित्तविक्षेप- कृतः शोच्यः । २६६. आसन्नविंशकपलैरित्यत्र तृतीया नोपपद्यते । अपवर्गे सा विधी- यते । अपवर्गश्चेह नास्ति । अत्यन्तसंयोगमात्रे द्वितीयया भाव्यम् । समुपासीनम् इत्येव युक्तम् । आंस उपवेशन आदादिकः । २६७. अबोध्यहम् । अभुत्सि इति तु वक्तव्यम् । चिणि तशब्दे परे विकल्पेन अबोधीति रूपम् । प्रमाद एवायम् । २६८. चन्द्रच्छविरिवेत्युपमानात्प्रथमा न युज्यते उपमेये मुखे द्वितीयान्ते सति । उपमानोपमेययो: समानविभक्तित्वमिष्यते । २६९. सम्पूर्वको दिहिः संशयमाह न केवल इति सन्देग्धीति वाच्यम् । न हि सन्देह इति वक्तव्ये देह इति कश्चिदसंमूढः प्रयुङ्क्ते । २७०. परीमलशब्दो दीर्घमध्यो नास्तीति परिहार्यः, व्यवहारश्च रक्षरणीयः । २७१. जीमूतमिति रूपमेव प्रयोगार्हम् । पृषोदरादीनि यथोपदिष्टानि तथैव साधूनि भवन्ति । तानीष्टं संस्कारमापाद्य न प्रयोगविषय- तां नेयानि । तत्र स्वश्छन्दो नियन्तव्यः ।