प्रकीर्णकम् ३७९
२७२. अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचना: ।
२७३. सप्तत्याऽभ्यधिकं यातं सहस्रं परिवत्सराः (राज० १।५२) ।
२७४. कथमस्तमनवेलायाम् इति ।
२७५. तत्र मन्त्रयतामेवं देवतानां मया श्रुतः ।
भवतः सानुगस्यैव वधोपायः सुदारुणः (हरि० २।१।१५) ।
२७२. अर्धं सप्तशतस्येत्यर्धसप्तशतमित्येकदेशि समासः स्यात् ।
सप्तशतमिति समाहारे द्विगुः । अकारान्तोत्तरपदो द्विगुः स्त्रियां
भाष्यते । तेन स्त्रीत्वे द्विगोरिति ङीप् स्यात् । पात्राद्यन्तस्य नेति
नपुंसकत्वम् । अर्धसप्तशता इति तु न सिध्यति । समप्रविभागे-
ऽत्रार्धशब्दः । स च नियतं नपुंसकम् । तस्मादर्धानि सप्त शतानि
अर्धं सप्तशतं वा संख्या परिच्छेदकत्वेन यासां ता इत्येवं न शक्यं
विग्रहीतुम् । एकदेशिसमासेन बाधात् ।
२७३. सप्तत्याऽधिका याताः सहस्रं परिवत्सरा इत्येवं संशोध्य पठ-
नीयम् । सप्तत्याधिकमिति सहस्रमिति च द्वे विशेषणे परि
वत्सरा इत्य् एकस्मिन्विशेष्ये प्रन्विते, न तु परस्परम् । गुणानां
परार्थत्वादसम्बन्धः समत्वादिति वैशेषिकाः । सोऽयं न्याय:
सन्दर्भशुद्धिमीप्सद्भिर्विद्वद्भिः सततं हृदि करणीयः । किं
चात्रेदं निन्त्यं यातमिति नपुंसकैकवचने कथं प्रयुक्तम् । नूनमिह
कविरन्यत्रमना अभूत् । सहस्रमिति संख्येये वर्तते न संख्यायाम् ।
संख्येयं चात्र परिवत्सराः । संख्यायां चेत्स्यात् परिवत्सराणा-
मिति ब्रूयात् । कामं तदा यातमिति निर्दुष्टं स्यात् ।
२७४. अस्तमयनमित्यस्य स्थानेऽस्तमनं पृषोदरादित्वात् । शतपथे
ब्राह्मणे (१३।८।१।९) ऽकृतयकारलोपं रूपं श्रूयते--सप्तर्षीणां
चोदयनमादित्यस्य चास्तमयनम् इति ।
२७५. तलन्तं स्त्रियाम् इति देवताशब्दो नित्यं स्त्री । तेन समानाधिकर-
णेन विशेषणेन शत्रन्तेनापि स्त्रीया भाव्यम् । तस्मान्मन्त्रयतामित्य-
साधु । मत्रि गुप्तपरिभाषणे इत्यनुदात्तेत्, ततः शानचि टापि
मन्त्रयमाणानामितीष्यत इत्यन्यदेतत् ।