पृष्ठम्:शब्दापशब्दविवेकः.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३७७


२५९. नाट्यशास्त्रे काव्यस्य निरूपणं नास्ति । काव्यप्रकाशे च नाट्यस्य न । साहित्यदर्पणे तदुभये प्रातिपादिते दृश्येते । २६०. चत्वारो धनदायादा धर्माग्निनृपतस्कराः । तेषां ज्येष्ठावमानेन त्रयः कुप्यन्ति सोदराः ।। २६१. एवं वयं च धर्मज्ञ सर्वे चास्मत्पितामहाः । पाविता वै भवि- ष्यन्ति.... (भा० अनु० ८।२६) ।। २३२. दूरोच्चलन्नाकवधुनिकारसंराविणीं रावणराजधानीम् (अभि- नन्दकृते रामचरिते १७११)। २६३. दिनभनुनिजगेहे मेषगोवृन्दकैः सा, ह्यभिमतजनकाभ्यामेधिता ग्रामकन्या (क्रिस्तु भा० ६।४०)।

२५९. तदुभयं प्रतिपादितं दृश्यत इति तु वक्तव्यम् । त उभये इति वा । उभयशब्दो ह्येकत्वे बहुत्वे च प्रयुज्यते न द्वित्वे । २६०. सोदर्याः समानोदर्या इति वा वक्तव्यम् । सदृशवचन: सहशब्दो- प्यस्ति । तेन वोपसर्जनस्येति वैकल्पिके सभावे सहोदरा: सोदरा इति चोभयं साधु । २६१. वयं भविष्याम इति क्रियाध्याहारेण शक्यं समाधातुम् । वाक्य- भेदस्तु भवति । वाक्यैक्ये तु अस्मद्युत्तमे इति शास्त्रेण उत्तमः पुरुष एव प्रयोगमर्हति । शेषे प्रथम इत्यस्य त्वप्रसङ्गः । युष्मद- स्मदोरुपपदयोरभावो हि शेषः । स चेहास्मच्छशब्दश्रवणा- न्नास्ति । २६२. सम्पूर्वाद् रौतेर् उपसर्गे रुव इति घञि संराव इति सिध्यति । संरावोऽस्त्यस्यामिति संराविणी । मत्वर्थीय इनिः । इत्यनवद्य रूपम् । २६३. दिनमनु इति समासश्चेत्स दुष्यति । वीप्सायामव्ययीभावेऽनु- दिनमिति स्यात् । अथाऽसमासस्तथापि न दोषनिर्मोक्षः । नित्य- वीप्सयोरिति वीप्सायां द्विरुक्त्या भाव्यम् । दिनं दिनमन्विति च वाच्यम् । जनकाभ्यामित्येकशेषोऽपि दुर्घटः । जननी च जनक- श्चेति जननीजनकाविति स्यात् । न ह्यत्र स्त्रीपुंसलक्षण एव विशेषः । समानायामाकृतौ यत्र विशेषस्तत्रैवैकशेषविधिर्नेतरत्र ।