३७६ शब्दापशब्दविवेके
२५२. स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । (मनु० ६।१६६)
२५३. तान्सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् (मनु० १०।२०)।
२५४. अहोऽतिघोरं बलवच्च ते मनश्चलेषु कामेषु च सारदर्शिन:
(बुद्धच० ४।६७) ।
२५५. हृते च लोके बहुभिः कुमार्गै: सन्मार्गमन्विच्छति यः श्रमेण । स
दैशिकः क्षोभयितुं न युक्तम् । (बुद्धच० १३।६२)
२५६. प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः (रा० २।१६।२) ।
२५७. प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते । एनं विदन्ति वेदेन
तस्माद्वेदस्य वेदता ।।
२५८. हसताऽपनीय हृदयाद् धनान्धकारं निराशायाः । हसत प्रदीप्य
दीपान् पदे पदे यूयमाशायाः ।।
२५२. संस्कृतायामित्यर्थद्वारकं विशेषणम् । नपुंसकमपि क्षेत्रशब्द:
स्त्रियमाह । तत्स्त्रीत्वमादाय विशेषरणे स्त्रीत्वम् ।
२५३. निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिरिति वचनादितिना
कर्मणो व्रात्यशब्दवाच्यस्योक्तत्वाद् द्वितीया न युज्यते ।
२५४. अहो अतिघोरमिति ओत् । (१।१।१५) इति प्रगृह्यत्वे प्रकृतिभावे
पूर्वरूपं न ।
२५५. स दैशिकः क्षोभयितुं न युक्त इति वक्तव्यम् । युक्त इति कर्मणि
क्तः । दैशिक इति कर्म । तेन पुंस्त्वं युक्तम् ।
२५६. प्रासकार्मुकं बिभ्रद्भिरित्येव साध्विति पाणिनीयाः । न लोका-
व्ययनिष्ठाखलर्थतृनाम् इति षष्ठीनिषेधेऽनुक्ते कमणि द्वितीया ।
न च द्वितीया शत्रन्तेन समस्यते, विधानाभावात् ।
२५७. एनम् इत्यनन्वादेशे न साधु । एतमिति ब्रूयात् । तत्रापि यच्छब्द-
सम्बन्धेनोत्तरस्मिन्वाक्ये तच्छब्द एव युक्ततरः प्रयोक्तुम् ।
२५८. पूर्वत्र निराशाया घनान्धकारम्, उत्तरत्र च प्राशाया: प्रदीपान्
इत्यत्र षष्ठी प्रयुञ्जानेन लोकभाषैवानुकृता, संस्कृतवाग्व्यव-
हारश्च नादृतः । संस्कृते तु रूपकसमाश्रयेण निराशाऽऽशा-
शब्दाभ्यां प्रथमा प्रयोक्तव्या । यथास्थिते तु निराशाकृतो निराशा-
सम्बद्धो वा धनान्धकार इति प्रतीयेत, आशायाः प्रदीपाः प्रदीप-
यितारस्तद्व्यतिरिक्ता केचनार्थाः प्रतीयेरन् । न च तथाविधोऽर्थः
प्रत्यायिययिषितः ।