प्रकीर्णकम् ३७५
२४६. वनान्तर्वसति, अन्तर्वणं वेत्युभयथा वृत्तिः शक्याऽऽस्थातुम् ।
२४७. रुचि स्वधर्मे भुवनद्वयेऽपि श्रेयःप्रसूं यत्नमृते ददाति (श्रीकेशवा-
नन्द दि० सा० १८।५३)
२४८. तदानीं सर्वोऽयं देशश्चन्द्रगुप्तस्याधिकारेऽवर्तिष्ट ।
२४९. एतद्देशस्वातन्त्र्यप्रतिलब्ध्यै श्रीसुभाषचन्द्रः प्राणानेव पणेऽद-
धात् ।
२५०. द्रवाणां धृततैलानां कावकोटाद्युपहतानां..."प्रादेशप्रमाणकुश-
पत्रद्वयाभ्यामुत्पवनेन शुद्धिः (मनु० ५।११५ इत्यत्र कुल्लूकः) ।
२५१. अनेकधा कृताः पुत्रा ऋषिभिश्च पुरातनैः ।
न शक्यन्ते तेऽधुना कर्तुं शक्तिहीनरिदन्तनै: (बृ० स्मृतौ) ॥
.
२४६. वनान्तर इनि वनेऽन्तर् इति सप्तमी शौण्डैरिति सप्तमी समासः ।
अन्तर्वणमिति तु विभक्त्यर्थेऽव्ययीभावः । प्रनिरन्तः शरेक्षु प्लक्षे-
त्यादिना (८।४।५) वननकारस्य णत्वम् ।
२४७. श्रेय: प्रसूते इति श्रेयःप्रसू:, तां श्रेयः प्रस्वम् (रुचिविशेषणम्) ।
ओ: सुपीति यण अमिपूर्वं बाधते ।
२४८. सर्वस्मिन्नस्मिन्देशे चन्द्रगुप्तस्याधिकारोऽवतिष्टेत्येवं वक्तव्यम् ।
देशो ह्यधिकारस्य विषयः, स चाधिकारश्चन्द्रगुप्तसम्बद्धो वेति
चन्द्रगुप्तशब्दात्कर्तरि षष्ठी शैषिकी वा । सर्वोऽयं देशश्चन्द्र-
गुप्तेधि अधि वा चन्द्रगुप्तः सर्वस्मिन्नस्मिन्देश इति न्यासस्तु
श्रेयान्त्स्यात् ।
२४९. प्राणानेव पणमकरोदित्येवं वक्तव्यम् । प्राणानामेवापणिष्टेत्येवं
वा । प्राणाः पण इति व्यस्तरूपकम् । व्यवहृपणोः समर्थयोरिति
प्राणानामित्यत्र षष्ठी ।
२५०. कुशपत्त्रद्वयाभ्याम् । द्वयमित्यत्र प्रमाणे तयप्प्रत्ययः, तस्य
चायजादेशः । तयप्प्रत्ययान्तं धर्मवृत्ति प्रयुज्यते धर्मिवृत्ति च ।
धर्मवृत्ति चैकवचनान्तं स्त्रीनपुंसकयोः प्रयुज्यते । तेन कुशपत्त्र-
योर्द्वयमिति विग्रहे कुशपत्त्रद्वयमित्येव भवति नान्यथा । धर्मिवृत्ति
च बहुवचनान्तम्-द्वये प्राजापत्या देवाश्चासुराश्च ।
२५१. इदन्तनैरिति बृहस्पतेः स्वश्छन्दः । इदानीन्तनरिति तु भवित-
व्यम् । इदंशब्दादनव्ययाट्ट्युट्युला: प्राप्तिरेव नास्ति ।