पृष्ठम्:शब्दापशब्दविवेकः.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७४ शब्दापशब्दविवेके


२३८. वारुणीमदविशङ्कमथाऽऽविश्चक्षुषोऽभवदसाविव राग: (शिशु० १०।१९)। २३९. पदङि्घ्रश्चरणोऽस्त्रियाम् (अमरः) । २४०. यूयं सर्वे मनुष्या आज्ञप्यन्ते वेदेन नित्यं यजध्वमिति । २४१. यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत् (यो० वा० ५।७५) । २४२. इह ब्राह्मणानां नवदश वर्तन्ते इष्यते च विंशतिः । २४३. जनयति कुमुदभ्रान्ति धूर्तबको बालमत्स्यानाम् । २४४. अकर्दममिदं तीर्थं भारद्वाज निशामय । (रा० श२।५) २४५. संतोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । २३८. ऊर्यादिषु पाटादाविसो नित्या गतिसंज्ञा । ते प्राग्धातो: (१।४। ८०) इत्यनेन च धातोः प्राक् प्रयोगो नियम्यते । तस्माद् दुष्ट: कविप्रौढिकृतो व्यवहितः प्रयोगः । २३९. दकारान्ता पद् इति स्वतन्त्रा प्रकृतिर्नास्तीति चिन्त्यमिदमभि- घानम् । केचित्तु पद्दन्नोमास् इति सूत्रे प्रति ग्रहणस्य प्रकारा- र्थत्वाच्छसादिव्यतिरिक्तेऽपि विषये पदादीन् आदेशानिच्छन्ति । अतः ककुद्दोषणी इति भाष्यप्रयोगोऽपि संगच्छत इत्याहुः । २४०. युष्मद्युपपदे आज्ञाप्यध्वे इति मध्यमः पुरुषः प्रयोक्तव्यः । 'सर्वे' इति तु यूयमित्येतद् विशिनष्टि । २४१. यत्नयुक्तिविहीनेनेति तु साधु स्यात् । न लोकाव्ययेति शास्त्रेण षष्ठीनिषेधात् । २४२. इह नवदश ब्राह्मणा वर्तन्ते विंशतिश्चेष्यन्ते इत्येवं वक्तव्यम् । हेतुरसकृदुक्तः पुरस्तात् । २४३. पोटायुवतिस्तोकेत्यादिना शास्त्रेण जाति: पोटादिभिः सम- स्यते । प्रथमानिर्दिष्टेति जातिरुपसर्जनम् । तेन बकधूर्त इति साधु स्यात् । २४४. शम लक्ष आलोचने इति चुरादी घातू । ज्ञपादिपञ्चकादन्ये स्वा- र्थणिजन्ता मितो नेति सिध्यति रूपमिष्टम् । धातूनामनेकार्थत्वा- च्छ्रवणेऽर्थे प्रवृत्तिः । २४५. स्वदारेष्विति वक्तव्यम् । दारशब्द: पुम्भूम्नि नियतः । क्वचित्सूत्रे- ष्वेकवचनान्तः प्रयोगो दृश्यते स नानुसर्व्यः ।