प्रकीर्णकम् ३७३
२३२. येन नाप्राप्त इत्यस्य यत्कर्तृकावश्यप्राप्तावित्यर्थो नद्वयस्य
प्रकृतार्थदार्ढ्य बोधकत्वात् (परिभाषेन्दु० अन्तरङ् गादप्यपवादो
बलीयानिति परिभाषायाम् ।
२३३. नागरका इमे सूदाः पचन्तिरूपम् ।
२३४. पश्यामि तामित इतः पुरतश्च पश्चात् (मालती०) ।
२३५. निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः । विशदी
करवाणि कौतुकात् (न्या० सि० मु०)
२३६. यो गुरुभ्योऽसूयत्यसौ हतो हताशः ।
२३७. तद्यत् समान्यामृचि समानाभिव्याहारं भवति तज्जामि भवति
(नि० १२।१६)।
२३२. अवश्यप्राप्तावित्यत्रावश्यमो मकारस्य लोपो दुर्लभः । लुम्पेद-
वश्यमः कृत्य इति कृत्ये प्रत्यये तद्विधानात् । ननु वश्यशब्दोऽ-
प्यस्ति । बाढमस्ति । परं वशं गतो वश्यो भवति, यथा वश्यः
सुतः, स चार्थ इह न घटत इति चिन्त्यः प्रयोगः शेखरकारस्य ।
२३३. नगरात्कुत्सनप्रावीण्ययोरित्यनेन प्रावीण्ये गम्यमाने नगरे भवाः
प्रवीणा नागरका इत्यर्थे नगराद् वुञ् तद्धितः ।
२३४. पुरत इति समानकालीनम् पूर्वकालीनम् इत्यादिवत् प्रामादिक-
मिति बहवः । केचित्तु दक्षिणोत्तराभ्यां तसुज्विविनैवेष्टसिद्धाव-
कारोच्चारणमन्यतो विधानार्थम् । तेन पुरत इति सिध्यति । पुर
अग्रगमन इत्यस्मात्क्विपि पुर् इति निष्पद्यते । वोरुपधाया दीर्घ
इक इति दीर्घस्तु न भवति, भत्वात् । न चातसुचश्चित्त्वेऽकारो-
च्चारणं पक्ष आद्युदात्तार्थमिति वाच्यम्, बहूनां प्रयोगानुरोधेना-
न्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वात् इत्याहुः ।
२३५. निजशब्द आत्मीयमाह नात्मानमित्यात्मार्थे प्रयोगो दुष्यति तर्क-
पञ्चाननस्य । अत्र विषये वाग्व्यवहारादर्शानुबन्धे बहूक्त-
मिति नेह वितन्यते ।
२३६. योऽसूयति स इत्येवं वक्तव्यम् । यत्तदोर्नित्यः सम्बन्ध इत्युत्तर-
वाक्ये तच्छब्देन भवितव्यम् ।
२३७. समानशब्दस्य स्त्रीत्वविवक्षायां लोके टापि समानेति भवति ।
वेदे तु समानीति ङीपि । तत्र केवलमामकभागधेयेत्यादि शास्त्रं
विधायकम् ।