पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७२ शब्दापशग्दविवेके


२२५. द्वाराणां नव संनिरुध्य. '''यावत् तिष्ठति तावदेव महतां सङ्गो न संस्तूयते (यो. चूडा० उ० १०७) । २२६. कति धर्मद्वाराणि कति तत्त्वानि कत्यागमा इति विषये या सामग्री पुराणेषु वितता तामेकत्र संगृह्य विचारोऽत्र विहितः । २२७. प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि (किराते) । २२८. विमानना सुभ्रु पितुर्गृहे कुतः (कु०) । २२९. जरीजागरीति पाणिनीयं सर्वशास्त्रोपकारकम् । २३०. वर्गाश्रमेतराणां नो ब्रूहि धर्म्मानशेषत: (याज्ञ० १।१) । २३१. भारो न बाधते राजन् यथा बाधति बाधते (भोजप्रबन्धे)। २२५. नव द्वाराणि इति वक्तव्यम् । आ नवदशभ्य: संख्यावचनाः संख्येये वर्तन्ते न संख्यायाम् । धर्मिवृत्तय एते न धर्ममात्रवृत्तयः । २२६. सामग्रीति सामग्र्यं साकल्यं कार्त्स्न्यमाह । कस्य सेत्याकाङ्क्षा तु न शाम्यति । तेन सामग्रीति केवल: शब्दो न प्रयोक्तव्यः, विवक्षितार्थस्यानवगमात् । प्रकृते प्रमेयसामग्रीति वक्तव्यम् । २२७. प्रियमधुकेति कपि समासान्ते भविष्यति । उरःप्रभृतिषु मधु- शब्दपाठान्नित्यः कबिष्यते । प्रियं मधु यस्याः सा षट्पदाली प्रियमधुका । २२८. नेयङुवङ् स्थानावस्त्री इति नदीसंज्ञा प्रतिषेधात् 'सुभ्रु' इत्यत्र ह्रस्वो दुर्लभः । समाधिस्तु पुरस्तादुक्तः । २२९. जागृ निद्राक्षये इत्यनेकाच् । ततो यङ्लुकौ दुर्लभौ । धातोरे- काचो हलादेः क्रियासमभिहारे यङ् इत्येकाचो हलादेर्धातो र्यङं विधत्ते । भृशं जागर्तीति तु वक्तव्यम् । २३०. वर्णाश्चाश्रमाश्च इतरे चेति वर्णाश्रमेतराः, तेषां वर्णाश्रमेतरा- णाम् । द्वन्द्व सर्वनामतानिषेधात्तन्निमित्तक: सुडागमो नेति सर्व- मवदातम् । २३१. अनुकरणान्यनुकार्यणार्थनार्थवन्ति भवन्तीत्येकः पक्षः, अनर्थकानि तानीति चापरः । अनुकरणानुकार्ययोरभेदं स्वीकृत्याऽनुकरणे शक्त्यभावादासत्त्वेन प्रातिपदिकत्वं न । अस्मिन्पक्षेऽनर्थकत्वाद् बाधति शब्दस्य प्रातिपदिकत्वं नेति सुबुत्पत्तिर्न । .