पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३७१


२१८. असन्तुष्टा महतोऽप्यस्मात्प्रयत्नात्ते भूयोऽपि यत्नान्तरं चक्रुः । २१९. गुरुजनेऽपराद्धायास्मै को न दण्डः प्रदेयः । २२०. किमिति च भवतेदं गेहमभ्यागतेन मृदुचरणसरोजैर्भूषितं सम्मतेन । २२१. परस्य युवती कान्तां सस्पृहं नेक्षते कः । २२२. प्रीताः प्रजाश्च सम्प्रेक्ष्य प्रीणाति परमेश्वरः । २२३. दृष्टमत्यद्भुतं तस्यां द्वयमात्मविरोधकृत् । अहो मुखस्वरूपोत्थं तमी च कचसम्भवा (श्रीवरस्य कथाकौतुके)। २२४. उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः (मनु.) २१८. असन्तुष्टा महताप्यनेन प्रयत्नेनेति वक्तव्यम् । प्रयत्नो हि सन्तोषे कारणं हेतुः । सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव चेत्यादिषु (मनु० ३।६०) हेतुतृतीयाया दर्शनात् । २१९. दण्डो नाम दमो निग्रहो वा । न हि स दीयते । तथा हि गर्गा- ञ्शतं दण्डयति राजेत्यत्र दण्डिर्ग्रहणार्थो दृष्टः। निग्रहार्थत्वेपि दानक्रिया न युज्यते । दण्डो नाम क्रियते प्रणीयते धार्यते वा । तेन गुरुजनेऽपराद्धेऽस्मिजने को नु दण्डः प्रणेय इति वक्त- व्यम् । २२०. मृदुचरणसरोजैरित्यत्र बहुत्वं दुष्यति । अभ्यागतो हि द्विपाद्- भवति न चतुष्पात् । आदरो जिगमयिषित इति चेत्तथापि बहु- वचनं न युज्यते । आदरस्तावदुपमानेन सरोजेन गमित इति चरणशब्द इह चरणार्थत्वं न जहाति । तेन तद्गतवहुत्वमुद्वेगाय । गुरुचरणा इति त्वस्वपदविग्रहो नित्यसमासः । पूज्या गुरव इत्यर्थः । २२१. युवतीति युवस्त्रियां दुष्प्रयुक्तम् । यौते: शतरि ङीपि यद्व्यु- त्पादयन्ति तन्न साधु । योगसमाश्रये हि मिश्रणकर्म कुर्वती काचित्प्रतीयेत न तु द्वितीये वयसि वर्तमाना वयस्था । वयस्थां च विवक्षति वक्ता । २२२. प्रीञ तर्पणे कान्तौ चेति क्र्यादिः सकर्मकः । प्रीङ् प्रीतौ दिवादि- रकर्मकः । तेन प्रीयते परमेश्वर इत्येवं वक्तुमुचितम् । २२३. अहर्मुखस्वरूपोत्थमित्येव साधु । रोऽसुपोति रेफे सति रूपम् । २२४. उपचार्य इति तु पाणिनीयाः । गदमदचरयमश्चानुपसर्ग इत्यनु- पसृष्टादेव चरतेर्यद्विधेः । अन्यत्र ऋहलोर्ण्यति उपचार्य इत्येव ।