पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७० शब्दापशब्दविवके


२०९. कथं 'भीतभीत इव शीतमयूखः' (कि०) । २१०. सर्वे सङ्क्रामिणो रोगा वर्जयित्वा प्रवाहिकाम् । २११. नोच्छिष्टं कस्यचिद् दद्यात् (मनु० २१५६) । २१२. वेदैरशेषैः सवेद्यो नः कृष्णोऽवतु सर्वदा । २१३. करभा: स्युः शङ्खलका दारवैः पादबन्धनैः (अमरः) । २१४. सर्वरत्नाकरा भूमि: (गरुड पु० २१७।८६) । २१५. न विदवसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । २१६. खगबाल्यादिनोर्वयः । (अमरः) २१७. न यतिभ्योऽर्थानां किञ्चित्प्रयोजनमस्ति । २०९. सादृश्यस्येवशब्देन गमितत्वात्प्रकारे गुणवचनस्येति द्वित्वा- प्राप्तेर्भीतेभ्यो भीत इति कथंचिद् व्याख्येयम् । २१०. सङ्क्रामिण इत्यत्र णिनावुपधावृद्धिर्दुर्लभा । नोदात्तोपदेशस्य मान्तस्यानाचमेरित्यनेन तत्प्रतिषेधात् । तेन सङ्क्रमिण इति वक्तव्यम् । २११. कस्येत्यत्र पष्ठी शङ्क्यते । अयमत्र समाधि - न ह्यत्र ददात्यर्थः परिपूर्णः । स्वत्वनिवृत्तिमात्रं दातु: । परस्य स्वत्वापत्तिर्नास्तीति मेधातिथिः । २१२. अनुदात्तं सर्वमपादादाविति पादादौ वर्तमानस्यारमदो नस् इत्या- वेशः पर्युदस्यते । अस्मान् इत्येव वाच्यम् । २१३. दारवैरिति दुष्टम् । नित्यं वद्धशरादिभ्य इति मयटि दारुमयैरिति वक्तव्यस् । कामं छन्दसि दारवशब्दप्रयोगो दृश्यते । न दारवे पात्रे दुह्यात् । अग्निर्वा एष यद् दारुपात्रम् इति । २१४. सर्वरत्नानामाकर इति विग्रहः । आकरशब्दो घप्रत्ययान्तः पुंसि नियतः । एत्य कुर्वन्त्यत्रेत्याकरः । २१५. श्वस् प्राणनेऽदादिः । तेन लिङि यासुटि विश्वस्यादिति स्यात् । गणकार्यमनित्यम् इति कर्तरि शपि अतो येय इति 'या' इत्यस्ये- यादेशे सिद्धं विश्वसेदिति । २१६. खगश्च बाल्यादि चेति खगबाल्यादिनी, तयोः खगबाल्यादिनोः । बाल्यमादिर्यस्य तद् बाल्यादि यौवनमिति सर्वमनवद्यम् । २१७. न हि यतीनामर्थ: किञ्चित्प्रयोजनमस्तीत्येवं विपरिणमय्य वक्तव्यम् । एष संस्कृतवाग्यवहारः । ।