प्रकीर्णकम् ३६९
२०४. ईश्वराधिष्ठितायाः प्रकृतेः कर्तृत्वं जगतोऽनीश्वराधिष्ठिताया
वेति विमृश्यते ।
२०५. मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे (भा० पु०
११६।३१)।
२०६. नाहं विरिञ्चो न कुमारनारदौ
न ब्रह्मपुत्रा मुनयः सुरेशा: । विदाम यस्येहितम् (भा० पु०
६।१७।१३२)
२०७. उच्चैर्घुष्टं तु घोषणा (अमरः)
२०८. मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् । (मेघ० पू० १०)
-
२०४. कर्तृ शब्दो गुणवचनो नेति त्वतलोर्गुणवचनस्येति पुंवद्भावा-
प्राप्तौ कर्त्रीत्वमित्येव साध्विति प्रयोगचणाः ।
२०५. अस्मद्युत्तम इत्युत्तमपुरुष एव प्रयोज्यः । जज्ञिमहे इति वक्तव्यम् ।
२०६. विदामेति लोट्युत्तमबहुवचनेऽनुपपन्नम् । वेदामेति पाणिनीया
इच्छन्ति । श्रुतौ विदाम देवं भुवनेशमीड्यम् इत्यत्र विदामेति
दृश्यते । छन्दोवत्कवयः कुर्वन्ति तद्भागवतकारे तु भूयसा
लक्ष्यते । किञ्च । विदामेत्युत्तमबहुवचनं न युज्यते । प्रतिषि-
द्धाया विदिक्रियाया ऐक्येपि कारकभेदाद् वाक्यभेदो नत्र आवृत्ते-
श्च । प्रतिवाक्यमस्मदादयः कर्तारस्तिङ्प्रत्ययेन कर्तृवाचि-
नोक्ता इति विदामेत्यत्रोत्तमपुरुषो बहुवचनं चेत्युभयमनुपपन्नम् ।
अहं न वेदानि, विरिञ्चो न वेत्तु, कुमारनारदावपि न वित्ताम्,
ब्रह्मपुत्त्रा मुनयः सुरेशा (अपि) न विदन्त्विति वाक्यचतुष्टयम् ।
तत्र कः प्रसङ्ग उत्तमपुरुषबहुवचनान्ताया एकस्या: क्रियाया: ।
२०७. विशब्दनादन्यत्रेण्निषेधो यथा घुष्टा रज्जुरित्यत्र । तेन घोषणा-
यामर्थे घुष्टमसाधु । विशब्दनाविवक्षायामिण्न कृत इति तु
स्वामी । अनेकधर्मरणो वस्तुनः कस्यचिदेकस्य धर्मस्याविवक्षा
स्यान्नाम, साक्षादभ्युपगतस्यार्थस्याविवक्षा कथंकारं युज्यत ।
घोषणेत्यर्थोक्तेर्विशब्दनस्योच्चैरभ्युपगमात् । तेन चिन्त्यं स्वामि-
समाधानम् ।
२०८. कर्मधारयवदुत्तरेष्विति मन्दमन्दमितीष्यते । स्थितस्य गतिश्चि-
न्तनीयेति चेत् स्वतो मन्दं मन्दगामिनं त्वां पवनो मन्दं (यथा
स्यात्तथा) नुदतीति कथंचित्समाधेयम् ।