३६८ शब्दापशब्दविवेके
१९८. सुन्दरयाऽनया शैल्या शिक्षिताश्छात्रा: संस्कारं कमपि लप्स्यन्ते
नूनम् ।
१९९. यतितं मया चिराय व्याकरणमवगन्तुं न च पारितम् ।
१००. जागृतोऽहमात्मनि ब्रह्मणि, नहीदानीं विडम्बयितुमर्हति मां
माया वराकी ।
२०१. सा तज्जुगुप्सितं मत्वा महती व्रीडिता ततः ।
बभञ्जैकैकश: शङ्खान्द्वौ द्वौ पाण्योरशेषयत् (भा० पु०
११।९।७)॥
२०२. अल्पश्रुतस्येदं शीलं स्वस्याभिमतं मतमेवावलम्बितुमागृह्णाति
परान् ।
२०३. एकाक्षरी काश्मीरकाणां श्रीपत्रिकाप्यस्तं गता ।
१९७. मायावि मित्रमित्येव साधु । मित्रमिति नित्यं नपुंसकम् । स्व-
मोर्नपुंसकादित्यमो लुकि नलोपः प्रातिपदिकान्तस्येति नलोपे
सिद्धं मायावीति ।
१९८. सुन्दर्याऽनया शैल्येति वक्तव्यम् । गौरादित्वान्ङीष् ।
१९९. यती प्रयत्ने इतीदित् । श्वोदितो निष्ठायामितीनिषेधे यत्त-
मित्येव साधु ।
२००. जागृ निद्राक्षये इत्ययं सेट् । अनेकाच्त्वात् । आतश्च युकः
कितीत्यनेन इण्निषेधो न । जाग्रोऽविचिण्णल्ङित्सु इति गुणः ।
तेन जागरित इति साधु रूपं निष्पन्नम् ।
२०१. महतीति व्रीडिता इत्यस्य विशेषणमिच्छति भागवतकारः । विशे-
षणं विशेष्येण वान्वेति न विशेषणान्तरेण, गुणाणां परार्थत्वात् ।
तेन महदिति क्रियाविशेषणं प्रयोज्यम् ।
२०२. ममाभिमतं मतमेवावलम्बेरम्पर इत्यभिनिविशते इत्येवं वक्तव्यं
वाक्योपस्कृतये । अनेकश्चेह दोषो वाक्ये । भिन्नकर्तृकतायां
तुमुंस्तावद् दुष्यति । आङ्पूर्वस्य ग्रहेर्हठात्प्रवृत्तौ तिङि प्रयोगो
नेति सोपि दुष्यति ।
२०३. एकमक्षरं (वाचकत्वेन) यस्या: सेति विग्रहे स्त्रीत्वे टापि । एका-
क्षरेति युज्यते ।