प्रकीर्णकम् ३६५
१७४. संस्कृतपत्रिकेयं महीशूरराज्येनोपजीव्यते ।
१७५. शक्तिमनतिक्रम्यात्मश्रेयसि यत्नं महान्तमातिष्ठेत ।
१७६. व्यतिक्रमस्य कृते तर्जितः सुतः स्वरूक्षैर्वचोभिः पितरं भृशमतौ-
त्सीत् ।
१७७. न हि वस्तुस्थितिपरिवृत्तिमात्रेण सन्तुष्टिर्नो भवित्री ।
१७८ धनधान्यस्य च स्फीतिः सदा मे वर्ततां गृहे ।
१७९. हे रोहिणि ! त्वमसि शीतकरस्य भार्या, एनं निवारय पतिं
सखि ! दुर्विनीतम् ।
१८०. तेनेदं काञ्चनमयं निर्मितं पुरमुत्तमम् ।
नपुंसकत्वे स्वमोर्लुकि रूपम् । इह चतुर्दिगिति द्वितीयान्तम् ।
विचरतेरकर्मत्वेपि देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणामिति
कर्मत्वम् ।
१७४. महिशूरराज्यमुपजीवतीति वक्तव्यम्, अन्यथा विपरीतमुक्तं
भवति ।
१७५. आङः स्थः प्रतिज्ञान इति प्रतिज्ञान आत्मनेपदविधिः, इह त्वा-
श्रयणमात्रमर्थः । तेनातिष्ठेदिति परस्मैपदमेव युक्तम् ।
१७६. स्वरूक्षैरित्यसमर्थसमासः, स्वस्य वचोभिरित्यनेनाभिसम्ब-
न्धात् । किञ्च स्वशब्दोधिक इति त्याज्यः । अत्यागे च रूक्षै:
स्ववचोभिरित्येवं वक्तव्यम् ।
१७७. भवित्रीति तृचि ङीपि रूपम् । इदं कृदन्तम् । किं नाम तिङन्त-
मिहाध्याह्रियेत । 'अस्ति' इति भविष्यति' इति वा । यद्येवं भवि-
त्रीत्यनुक्त्वाऽस्तीति भविष्यतीति वा किं नोच्येत लाघवात् ।
१७८. स्फीतिरित्यपशब्दः, स्फातिरित्येव शब्दः । निष्ठायामेव स्फायः
स्फीभावो विधीयते ।
१७९. अन्वादेश एनादेशो विहितः । इह चान्वादेशो नास्ति । किंचि-
त्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेश
इति तल्लक्षणात् ।
१८०. नित्यं वृद्धशरादिभ्य इति मयटि काञ्चनमयमिति साधु । क्व-
चिदुत्सर्गोऽप्यपवादविषयमभिनिविशत इति दर्शनात् काञ्चन-
मित्यप्यणि साधु ।