पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६४ शब्दापशब्दविवेके


१६६. इमां पुरोवर्तिवनाभिरामतां क्षणं नयनपान्थीकृत्य चरितार्थ्यता- मात्मा । १६७. सतीत्वं कालेन स्वप्नायितं भावीति केचिदाशङ्कन्ते । १६८. सेयमुपविशानां वर्षाणां घटना । नैनां विस्मृतो लोकः । १६९. भूकम्पस्य दिनत्रयात्पूर्वमेव कोयटात उदडयन्त शकुनय इति वार्ता । १७०. तेजोदीप्राया अमुष्या बालिकाया नावश्यकता दीक्षायाः । १७१. तेषामेव दृष्टावहममूल्य:, परे तु मामकिञ्चित्करं गणयन्ति । १७२. अवाप्सीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणीम् । १७३. अहो पङ्कजपरिचयसुरभिः प्रातस्तनः समोरश्चतुर्दिग् विचरन् सन्तर्पयतीन्द्रियाणि । - १६६. पथो णो नित्यमिति व्युत्पादितः पान्थशब्दः पन्थानं नित्यं गच्छ- तीत्यर्थमाह । तेन प्रकृतेऽप्रसङ्गोस्य । पथिक शब्दस्तु शक्य- प्रयोगः । तथापि नयनगोचरीकृत्य, नेत्रविषयीकृत्येति वानव- द्यहृद्यो न्यासः । १५७. भविष्यति गम्यादय इति भाविशब्दः साधुः । प्रयोगस्तु न साधुः । भविष्यतीत्येव वक्तव्यम् । १६८. इत उपविंशेषु वर्षेष्विदमघटत, नेदं विस्मृतो लोक इति वक्त- व्यम् । विस्मृत इत्यत्र कर्तरि क्तः, यथा व्यवसितादिषु । तथा च वामनसूत्रम्-व्यवसितादिषु क्तः कर्तरि चकारात् । १६९. भूकम्पाद् दिनत्रये (तृतीये दिने इति वा) इति वक्तव्यं पूर्वमिति चावक्तव्यम् । १७०. नार्थो दीक्षयेति वाच्यम् । अवश्यम्भाव आवश्यकं भवति । वुञा भावस्योक्तत्वादपरो भावप्रत्ययो व्यतिरिक्तः । अर्थश्चापि विव- क्षितो नार्यते । १७१. तेषामेवेति पर्याप्तम्, तान्प्रतीति वा, नार्थो दृष्टिशब्देन । अथ प्रयुयुक्षसे दृष्ट्येति तृतीयान्तं प्रयुङ्क्ष्व । १७२. आप्लृ व्याप्तावित्यस्य लृदित्वाल्लुङि च्लेरङि अवाप इति रूपम् । १७३. चतसृणां दिशां समाहारश्चतुर्दिक् । द्विगु: । स नपुंसकम् इति