प्रकीर्णकम् ३६३
१५९. कौमार्यं यौवनं स्थाविर्यमिति तिस्रोऽवस्थाः शरीरस्य ।
१६०. शूद्रातापस्यफलस्वरूपे क्वचिद्रामायणेऽकालमृयुर्वक्तव्य आसीत्स
च नोक्त इति शबरी शूद्रा नेति कश्चित् ।
१६१. अत्र देवमन्दिरे कारुकार्यमपि यवनशिल्पिशैलीमनुहरते ।
१६२. रात्रिन्दिवं तत्प्रतीक्षायामगमयं कालम् ।
१६३. चिरविश्लिष्टयोस्तयोरुपश्लेषे प्रावृतत्प्रेमाश्रुवर्षा विलोचना-
भ्याम् ।
१६४. यदहं रावणस्य गात्रसंस्पर्शं बलाद् गता तत्रानीशाऽहं किम-
करिष्यम् ।
१६५. गच्छत्सु कतिचिद्दिनेषु स गदान्निर्गतः किंचिद्बलमुपाचिनोत् ।
१५९. प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (५।१।१२९) इति भावे
ऽत्रि कौमारमित्येव साधु । स्थविरशब्दो युवादिषु पठ्यते तेन
हायनान्तयुवादिभ्योण् (५।१।१३०) इत्यणि स्थाविरमित्येव
साघु।
१६०. शूद्रातापस्यफलमिति क्वचिद्रामायणे इत्येवमुपन्यासो व्यवहार-
मनुपतेत् । व्यवहारश्च नातिपात्यो वैयाकरणंमन्येनापि ।
१६१. अनुहरतीति वाच्यम् । कर्त्रभिप्राये क्रियाफले त्वात्मनेपद न
दुष्यति । हरतेर्गतताच्छील्य इत्यनेन तु न प्राप्नोति । तत्र गत-
मिति गतिर्गृह्यते । गतविधप्रकारास्तुल्यार्था इति तुल्यतां शील-
यतीत्यर्थेऽनुहरत इति साध्विति मतमर्वाचीनं न बह्वादरणीयम् ।
१६२. कालमित्यधिकम् । रात्रिन्दिवमिति द्वन्द्वोऽधिकरणवृत्तिरपि
व्यस्तरात्रिन्दिवस्य ते इत्यादाविवान्यत्रापि प्रातिपदिकार्थवृत्ति-
र्भवति ।
१६३. प्रेमाश्रुवर्षमिति वाच्यम् । वर्षाशब्दः स्त्रियां बहुत्वे प्रावृषमाह, न
वृष्टिम् ।
१६४. किं करिष्यामीति वक्तव्यम् । हेतुहेतुमद्भावविरहाल्लृङ् न।
लुटप्रयोगविषयो वाग्व्यवहारादर्शे लकारचिन्तायां विस्तरेण
विवेचित इति तत एव विशेषो वेद्यः ।
१६५. कतिषुचिद् दिनेष्विति वदतव्यम् । न हि चिदिति निपातः समास-
घटकतां याति । नित्यं पृथक्पदतया व्यवहार्यं भवति ।