पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६२ शब्दापशब्दविवेके


१५१. रक्ता नाम श्रियमनुसरन्ति विरक्ताश्चानुसर्यन्ते श्रियेति विप- रीतो विधातुः क्रमः । १५२. ये नाम स्त्रैणमुपजीवन्ति१ ते यदि जीविताः, के मृताः ? १५३. वार्तमानिकः प्रजास्वनुपशम: क्षुन्निमित्तक इति निश्चितिः । १५४. समाजसंगठनं साम्प्रतमपेक्ष्यतेतमाम्, यतः सर्वतो विरोधिभिः परिक्षिप्ता वयम् । १५५. बह्वहं तस्य बुद्धिप्राखर्यमस्तुवम् । १५६. सर्वैश्वर्यकामधेनून् देवान्सम्प्रार्थयामहे वितरत नो भद्रं भूयसे मङ्गलायेति । १५७. स्वे स्वे धर्मणि निरताः प्रजाः सुखं निर्विशन्ति । १५८. तानि धर्मणि प्रथमान्यासन् । १५१. अनुस्रियन्ते श्रियेति वक्तव्यम् । रिङ् शयग्लिङ्क्षु इति रिङादेशः । १५२. ते यदि जीवन्ति के मृता इत्येवमुपन्यसितव्यम् । जीविता इति तु निष्ठायां रूपम् । निष्ठा च भूते । वर्तमाना च प्राणधारण- क्रिया विवक्षिता । १५३. वर्तमान इत्येव शोभनं वचः । तद्धितवृत्त्या नार्थः । प्रियतद्धितत्वं चेदात्मनोऽभिव्यङ्क्तुमिच्छसि कामं तद्धितं प्रयुङ्क्ष्व । १५४ समाजसंघटनमित्येव संस्कृतम् । संगठनमिति त्वपभ्रंशः । संग्रन्थनेर्थे संगठनमिति प्राकृतम् । १५५. अस्तवमित्येव लङ्युत्तमैकवचने रूपम्, गुणस्य दुर्वारत्वात् । १५६. कामधेनूरिति वक्तव्यम् । देवा कामधेनव इति रूप्यन्ते । व्यस्तं चेदं रूपकम् । पुस्त्वं तु दुर्लभम् । १५७. स्वे स्वे धर्म निरता इति वाच्यम् । धर्मादनिच्केवलादित्यस्या- ऽप्राप्ते: । १५८. धर्मशब्दोऽर्धर्चादिषु पठ्यते । तेन पुन्नपुंसकयोर्वर्तते । तत्रेयं व्यवस्था---अपूर्वे पुल्लिङ्गः । तत्साधने नपुंसकम् । तत्साधनं च यागः । प्रकृते चायमेवार्थ इति नपुंसकत्वं निर्दुष्टम् । २. स्त्रीणां समूहः । स्त्रीरित्यर्थः ।