पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३६१


१४५ ईदृशि तपांसि कोहश्चरितमृते विश्वामित्रात् । १४६. प्रायेण समानरूपाण्यपि वस्तूनि विषमशीलानि भवन्ति । १४७. दीघिकासु कुमुदानि विकासं लम्भयन्ति शिशिराः शशिभासः । १४८. शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः । (रा० ४।२८।८) १४९. भ्रमरोत्करकल्माषा१ कुसुमानां समृद्धयः । १५०. प्रतिमासमाद्येहनि ग्राहकाणां सेवायामुपसर्पति पत्रिकाकारो व्यथां च स्वां वेदयति । १४५. ईदृशीति शौ रूपं साधु स्यात् । अत्र शिप्रत्ययेङ्गं नान्तं न, किन्तर्हि शान्तम् । नकार उपधा न ऋकारः । तेन दीर्घोऽप्रसक्तः । १४६. सरूपाणीति वक्तव्यम् । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपे- त्यादिना समानस्य सभावः । १४७. डुलभष् प्राप्ताविति धातुः । सर्वा प्राप्तिर्गतिपूर्वा । तथापि क्व- चित्सा गतिरुद्भूता प्राधान्येन विवक्ष्यते क्वचिदनुभृता गौण्येन । यदाह वामन:-लभिरयं क्वचिद्गत्युपसर्जनां प्राप्तिमाह, क्वचि- प्राप्त्युपसर्जनां गतिमिति । पूर्वत्र गत्यर्थत्वाभावाण्णिच्यणौ कर्तुः कर्मत्वं न । सितं सितिम्ना सुतरां मुनेवपुर्विसारिभिः सौधमिवाथ लम्भयन्निति माघकाव्य उदाहरणम् । उत्तरत्र प्रकृतमुदाहर- णम् । अणौ कुमुदानि विकासं लभन्ते । णौ शिशिरा: शशि- भास: (प्रयोजकर्त्र्य:) कुमुदानि विकासं लम्भयन्ति । १४८. केतकानां गन्ध इति केतकगन्धः । सोऽस्त्येषामिति केतकगन्धिनः । अत इनिठनाविति इनिः । तेन नात्र कश्चिद्दोषः । शक्यमिति रूपं विलिङ्गवचनस्यापि कर्माभिधायां सामान्योपक्रमात् इति वामनीयसूत्रेण व्याख्यातम् । १४६. अन्यतो ङीष् (४।१।४०) इति वर्णवाचिनः कल्माषशब्दादनुदा- त्तान्तान् ङीषि कल्माषीत्येकवंचने रूपम् । बहुवचने च कल्माष्य इति । १५०. ग्राहकान्नम्रमुपसर्पतीत्येवं वक्तव्यम् । उपसर्पतिः सकर्मकः । ग्राह- काणां सेवायामिति च संस्कृतवाग्व्यवहारो नेति वर्जयेदिमां पदावलिम् ।१. षट्चरणचक्रचित्राः ।