३६० शब्दापशब्दविवेके
१३६. मनुष्यः खलु कियानपि बुद्धिप्रमाणको वैज्ञानिको वा स्यान्ना-
स्यात्मज्ञानमुदेति यावन्न श्रोत्रियं ब्रह्मनिष्ठमुपास्ते ।
१३७. दिनाद्दिनं कर्गजमूल्यं वृद्धिं यातीति किं कुर्मः ।
१३८. चारुचरितस्यास्य दर्शनेन समुत्सुको लोकः ।
१३९. चकास्ति संस्था त्वत्सङ्गात्ते शोभा नास्ति संस्थया ।
१४०. विमानना सुभ्रु ! कुतः पितुर्गृहे (कु० ५ । ४३) ।
१४१. जनयति कुमुदभ्रान्तिं धूर्तबको बालमत्स्यानाम् ।
१४२. नाहमात्मनश्छायामपि व्यश्वसमित्यासन्नमरणोऽवरङ्गजीवः
शब्दत: प्रतिपेदे ।
१४३. विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् (कु० २ । ५५) ।
१४४. नाथसे किमु पति न भूभृताम् (कि० १३ । ५६)
१३६. अपि चेन्मनुष्योऽतिमात्रं बुद्धिप्रमारणक इत्यादि वक्तव्यम् ।
१३७. दिने दिन इति वक्तव्यम् । दिनाद्दिनमित्यत्र दिनशब्दे पञ्चमी
च द्वितीया चोभे विभक्ती अनुपपन्ने ।
१३८. प्रसितोत्सुकाभ्यां तृतीया चेति तृतीया साध्वी ।
१३९. संस्था त्वया चकास्ति, त्वं तु न चकास्सि संस्थयेत्येवं वक्तव्यम् ।
समासो बुद्धिलक्षणमिति यदुक्तं पूर्वसूरिभिस्तन्मनसि करणीयम्,
यथा प्रक्रान्तं तथोपसंहरणीयम् । पादादौ 'ते' इत्यप्यपप्रयोगः ।
१४०. सुभ्रु इत्यत्र भ्रूशब्दस्योवङ् स्थानीयत्वाद् नेयङुवङ् स्थानावस्त्री
इति नदीसंज्ञाप्रतिषेधाद् अम्बार्थनद्योर्ह्रस्व इति ह्रस्वत्वं न
स्यादिति शङ्क्यते । अप्राणिजातेश्चारज्ज्वादीनाम् इत्यत्रा'लाबूः
'कर्कन्धूः' इत्यूकारान्तादप्यूङ्प्रत्ययमुदाजहार भाष्यकारः । एत-
स्मादेव ज्ञापकात् क्वचिदूकारान्तस्याप्यूङन्तत्वान्नदीत्वे ह्रस्वत्व-
मित्याहुरिति मल्लिनाथः । दीक्षितादयस्तु प्रमाद । एवायमिति
प्रतिपन्नाः ।
१४१. पोटायुवतिस्तोकेत्यादिना बकधूर्त इति तु युज्यते ।
१४२. विपूर्वः श्वसिरकर्मकः, तेनात्मनश्छायायामिति वक्तव्यम् ।
१४३. निपातेनाप्यभिहिते कमणि न कर्मविभक्तिरित्यसाम्प्रतमित्यनेन
निपातेनाभिहितत्वाद् वृक्ष इत्यत्र प्रातिपदिकार्थमात्रे प्रथमा ।
१४४. आशिषि नाथ इति नियमाद् यात्रायां परस्मैपदमेव युक्तम् ।
नाधस इति वा पाठः कल्पनीयः ।