पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३५९


१२७. हन्त देवदत्तो वराक: कियद्भिश्चिद्वर्षै: पक्षाघातेन पीडितोऽस्ति । १२८. प्रस्तावतरङ्गिणी नाम निबन्धावलिर्भूयसे भविष्यति भव्याय भावुकानाम् १। १२९. अपि वेत्थ कस्य यानस्य बाष्पयानमिति समाख्या ? १३०. मदुक्तं श्रृणुष्व मनसाऽवहितेन । १३१. उच्चावचा नाना ह्यधिकारिणो भवन्ति । १३२ इह प्रबन्धे विधायं विचयमपि विशेषं दोषं न पश्यामः । १३३. कैश्चन मासैर्भ्रातु: श्रीवेणीशङ्करस्य वृत्तान्तो नाधिगत इति चिन्ता मामाचामतीव । १३४, न गर्दभा वाजिधुरं वहन्ति (मृच्छ०) । १३५. संस्कृतज्ञमानिनोऽस्य ब्राह्मणब्रुवस्याखर्वो गर्वः कथं युज्यते ? १२७. कियन्तिचिद्वर्षाणीत्यत्यन्तसंयोगे द्वितीया प्रयोज्या । तृतीया त्वपवर्गे विहिता । अपवर्गश्चेह नास्ति । १२८. भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियामित्यमराद् भावुकं भव्येन समानार्थकं क्लीबम् । सहृदयं सचेतसं तु नेदमाचष्टे । तेन सहृद- यानामिति वक्तव्यम् । १२९. वाष्पयानमित्यत्र पूर्वपदात्संज्ञायामग इति णत्वं प्राप्नोति । क्षुभ्नादित्वान्न भवति । क्षुभ्नादिराकृतिगणः । अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्य इति ह्युक्तम् । १३०. शृणोतिः परस्मैपदी । तेन शृणु इत्येव साधु । १३१. उच्चावचा इति मयूरव्यंसकादित्वात्साधु । उच्चावचं नैकभेदमि- त्यमरप्रामाण्यादुच्चावचं नानेत्यनेन समानार्थकम् । तेनैकतरं शक्यं हातुम् । नानेति हीयताम् । १३२. दोषविशेषं विशिष्टं दोषमिति वा वक्तव्यम् । १३३. कांश्चन मासानित्यत्यन्तसंयोगे द्वितीया प्रयोक्तव्या । तृतीयया नार्थः । १३४. ऋक्पूरब्धू: पथामानक्ष इत्यः समासान्तो विहितः । तस्मिन्सति स्त्रियां टापि च वाजिधुरां बहन्तीति वक्तव्यम् । १३५. संस्कृतज्ञमानिन इत्येव साधु । णिनौ मुमागमस्याप्रसङ्गात् ।१. सहृदयानामित्यर्थं विवक्षति ।