३५८ शब्दापशब्दविवेके
१२०. ज्ञानलवदुर्विदग्धाः१ शिष्या ज्ञाननिधीन् गुरुनप्यनाद्रियन्त इति
कलेर्विलसितम् ।
१२१. महान्नाम दोषः प्रसज्येत यदि पैतृकी मर्यादा व्युत्क्राम्येत ।
१२२. अयं द्वात्रिंशतां निबन्धानां सङ्ग्रहो हिततमश्छात्रेभ्य इति मतं
नः ।
१२३. कठिनमिदं कार्यं यत्नान्तरमपेक्षते ।
१२४. अविलुप्तब्रह्मचर्यो दृढसर्वगात्रो वर्चस्वी स युवा त्रिंशद्वर्षायुषि
दारानकुरुत ।
१२५. अत्र संस्कृतज्ञेतराणां प्रवेशो निषिद्धः ।
१२६. ब्रह्मवर्चस्विन इमे वर्णिनः प्रदीप्ताग्नय इव भासन्ते ।
१२०. भाषायां तिङन्तेन समासो नेति नाद्रियन्त इति वक्तव्यम्, न तु
नञ्तत्पुरुषः समाश्रेयः । अपचसि जाल्मेत्यत्रापचसीति नञ्स-
मासो न, पृथक्पदद्वयमेतत् । नलोपो नमस्तिङि क्षेप इति वा-
र्तिकमप्राप्तं नलोपमेव विधत्ते ।
१२१. व्युत्क्रम्येतेति तु वाच्यम् । क्रमः परस्मैपदेष्विति परस्मैपद एव
क्रमेरुपधाया दीर्घविधिर्न तुं कर्मण्यात्मनेपदे ।
१२२. द्वात्रिंशतो निबन्धानां संग्रह इति वक्तुमुचितम् । विंशतिप्रभृतयो
नवनवत्यन्ताः संख्यावचनाः स्त्रियामेकत्वे प्रयुज्यन्ते संख्येये
वर्तमानाः ।
१२३. कठिनमिति कठोरेण समानार्थकं सुषिरप्रतियोगि । क्रूरेप्युपच-
यते । कृच्छसाध्ये तु नास्य प्रवृत्तिः क्वचित्साहित्ये दृष्टेति तत्रार्थ
आधुनिकोऽस्य प्रयोगो दूष्यः ।
१२४. त्रिंशद्वर्षो वयसा, त्रिंशद्वर्ष इति वा वक्तव्यम् । त्रिंशतं वर्षाणि
भूत इति विग्रहः । चित्तवति नित्यमिति ठञो लुक् ।
१२५. संस्कृतज्ञेतरेषामिति तु साधु । इतरशब्दो हि सर्वनाम सर्वादि-
गणे पाठात् । न च तत्पुरुषे सर्वनामता प्रतिषिद्धा शास्त्रेण ।
१२६. ब्रह्महस्तिभ्यां वर्चस इत्यचि समासान्ते ब्रह्मवर्चसमिति भवति ।
तत इनौ ब्रह्मवर्चसिन इति रूपम् । सान्तत्वाभावाद्विनेरभावः ।१. विद्याकरणसम्प्राप्त्याऽवलिप्ताः ।