प्रकीर्णकम् ३५७
११३. हतव्या विध्नबाधा मङ्गल्येष्वारम्भेषु ।
११४. परुद्भूता सम्मेलनस्य सुषमा नैषमे संभाव्यते ।
११५. अमी गोस्वामिनो वल्लभाचार्यकुलालङ्करणा इति विदितं नः ।
११६. श्रीविष्णुदिगम्बराणां गायनेन सम सभाकार्यमारब्धम् ।
११७. ये ग्रन्थमिममुपयोक्ष्यन्ति ते शब्दार्थान् साधु वेदिष्यन्ति ।
११८. स्वीकृतमनेन साहसिकं कर्म, तेनाऽस्य करुणा कुतः ।
११९. तस्य तत्र स्थितस्य विंशति वा पञ्चविंशति वा वर्षाणि गतानि ।
११३. विघ्न इति बाध इति च (बाधेत्यपि च) पर्यायौ । पर्यायौ च
पर्यायेरणार्थं ब्रूत इति तथोच्यते । तेन युगपत्प्रयोगो नेति विघ्ना
इत्येव पर्याप्तम् ।
११४. ऐषम इति सकारान्तमव्ययम् । तेन नैषमः संभाव्यत इति वक्त-
व्यम् ।
११५. अलङ्करणमिति भावे ल्युडन्तम् । ल्युडन्तं नपुंसकम् । कर्तरि-
ल्युर्वा स्यादिति चेन्न । नन्द्यादिष्वलङ्करोतेरपाठात् ननु । करणा-
धिकरणयोर्विहितो ल्युट् विशेष्यलिङ्गको भवति यथा इध्म-
व्रश्चनः कुठार इत्यत्रेति चेदत्र ब्रूमः - अत्र करणत्वमेव नास्ति ।
प्रकृते भावो वा कर्तृत्वं वाऽभिप्रेयते । तेन अलङ्कारा अलङ्कारो
वेति सर्वथा निर्दुष्टो न्यास आस्थेयः ।
११६. गानेनेति वक्तव्यम् । गायनो गाथको भवति । गस्थकन् । ण्युट्
च ।
११७. प्रोपाभ्यां युजेरयज्ञपात्रेष्विति तङा भवितव्यम् । लुटि उपयोक्ष्यन्त
इत्येव साधु ।
११८. ओजः सहोऽम्भसा वर्तत इति ठकि साहसिकशब्दनिष्पत्तिः । साह-
सिकः पुरुषो भवति । तस्य कर्म साहसिक्यं भवति । तेन साहसिक
कर्मेत्यपास्य साहसमित्येवोच्यताम् ।
११६. विंशत्यादय आनवनवतेः स्त्रियामिति विंशतिर्वा पञ्चविंशति-
र्वेति वक्तव्यम् ।