पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५६ शब्दापशब्दविवेके


१०५. वयं च ज्ञानालोकप्रवर्तकारणामार्याणां वंश्या इति शक्यं साभि- मानं शिर उन्नमयितुम् । १०६. लोकव्यवहृतिपरिचितिसम्पत्तये संस्कृतपाठशालासु प्रबन्धः कश्चिद्विधेयः । १०७. इतिहासप्रभृतयो विषया: संस्कृतगिरा निबद्धव्याः । १०८. ख्रिष्टाब्दीतः सहस्रद्वयात्प्राग् वेदा: प्रणिन्यिर इति केचित् प्रलपन्ति मातृमुखाः । १०९. शास्त्रार्थायाऽभीतवदाह्वयन्तमष्टावक्रं बालचापलमेतदिति नाद्रियते बन्दी । ११०. लोकरावणो रावणो विविधैराकारैः परुषाक्षरैश्चाभीषयत्सी- ताम् । १११. परं भर्तरि दृढमनुरक्ता सा न मनागप्यबिभ्यत्, न वा धर्माद् व्यचलत् । ११२. यदि ते किञ्चित्परमार्थतो विज्ञातुं विचेष्टेरंस्तदा ध्रुवं सिद्धि कामपि लभेरन् । १०५. ज्ञानालोक प्रवर्तकानामिति वक्तव्यम् । तकारव्यवधानेन अट्कु- प्वाङ्नुम्व्यवायेपीति णत्वं न । १०६. प्रबन्धशब्दः क्रियासातत्ये वर्तते, यथा नानद्यतनवत् क्रियाप्रबन्ध- सामीप्ययोरित्यत्र पारिणनीये तेन संविधानं किञ्चिद्विधेयमिति वा संविधा काचिद्विधेयेति वा वक्तव्यम् । १०७. निबन्द्धव्या इत्येव साधु । तव्येऽनुनासिकलोपस्याप्रसङ्गात् । १०८. ख्रिष्टाब्दतो द्वयोर्वर्षसहस्रयोरिति वक्तव्यं प्रागिति चाप्रयोज्यम् । उपपादना च वाग्व्यवहारादर्शे कारकाधिकरणे द्रष्टव्या । १०९. स्पर्धायामाङ इत्यात्मनेपदे आह्वयमानमिति साधु स्यात् । ११० अभाययत्सीतामिति वक्तव्यम् । षुगात्मनेपदं च हेतोरेव भये सति भवतो न तु करणादपि । हेतुश्चेह प्रयोजको गृह्यते । १११. अबिभेत् इत्येव साधु । शपः श्लुः । तिपि गुणः । ११२ विचेष्टेरन्नित्यत्र विशब्दो विरुद्धार्थमाह । नहि भवति विशेषेण चेष्टते विचेष्टत इति, किन्तर्हि विरुद्धं चेष्टते नाना वा चेष्टते इति । यथौदनस्य पूर्णाश्छात्रा विचेष्टन्त इत्यत्र ।