पृष्ठम्:शब्दापशब्दविवेकः.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३५५


९८. अवश्यभाविनमपायमाकलय्य तं शमयितुमुपायमातिष्ठेत्प्राज्ञः । ९९. एष वास्तविको दार्शनिकः कालः शक्यो व्यपदेष्टुम् । १००. युज्यते यच्छात्राः सततं संस्कृतं शीलयेयुः, लौकिकमप्यर्थं संस्कृते- तरस्यां भारत्यां न जातु ब्रूयुः । १०१ अद्यतनीनमार्यसंस्कृते रूपं कियत: कालादारब्धमिति सहसा वक्तुं न पारयामः । १०२. सुलभा खलु ब्रह्मवर्चस्कामना भवति, दुर्लभा पुनस्तस्याः समृद्धिः । १०३. राजाश्रयं विना कीदृश्या अप्युपयोगिन्याः शिक्षायाः प्रसारो नार्हति भवितुम् । १०४. ओमिति ब्रवीषि चेत्तदाऽवसन्नस्ते पक्षः । ९८. अवश्यम्भाविनमपायमित्यादि वक्तव्यम् । अवश्यमिति मकारा- न्तमव्ययम् । लुम्पेदवश्यमः कृत्ये इति कृत्ये परे मलोपविधिर्न तु कृन्मात्रे । असमासो वा विज्ञेयः तथापि मलोपाप्रसङ्गः । ९९. एष वस्तुतो दर्शनकाल इति दार्शनिकानां काल इति वा शक्यो व्यपदेष्टुम् । दार्शनिक इति तु दर्शनमधीते वेद वेत्यर्थे व्यव- ह्रियते । न च व्यवहारोऽन्यथयितव्यः स्वैरितया । १००. संस्कृतेतरया भारत्येत्येवं ब्रूयात् । वाग्घि साधनमर्थोक्तौ न त्वधिकरणमिति सप्तम्यनवसरग्रस्ता । १०१. अद्यत्तनार्यसंस्कृते रूपमिति तु निगाद्यम् । खप्रत्ययस्याप्राप्तेः । १०२. ब्रह्महस्तिभ्यां वर्चस इत्यच् समासान्तो न कृतः, स दोषः । ब्रह्म- वर्चसकामनेति तु वाच्यम् । १०३. महोपयोगाया अपि शिक्षाया इति वक्तव्यम् । कीदृश्या इति शिक्षाया एव विशेषणं भवितुमर्हति न तूपयोगिन्या इति विशेष- णस्यापि । वक्ता तु तत्राप्यस्यान्वयमिच्छति । तन्न संभवति । न हि विशेषणं विशेषणान्तरं विशिनष्टि । उभयोरप्येकस्मिन्वि- शेष्ये ऽन्वयान्मिथश्चानन्वयात् । १०४. यदा वाक्ये चेच्छब्दः प्रयुज्यते तदा तदेति वा तर्हीति वा उत्तर- वाक्ये न प्रयुज्यते इति संस्कृतवाग्व्यवहारः । अत्र प्रमाणोपचयो ऽस्मत्कृतौ वाग्व्यवहारादर्शानुबन्धे द्रष्टव्यः ।